अध्यायः 082 स्वर्गतो ययातेः पतनम् । अष्टकप्रश्नश्च ॥ 1 ॥ इन्द्र उवाच 001
सर्वाणि कर्माणि समाप्य राजन्गृहं परित्यज्य वनं गतोऽसि । 001a
तत्त्वां पृच्छामि नहुषस्य पुत्रकेनासि तुल्यस्तपसा ययाते ॥ 001c
ययातिरुवाच 002
नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु । 002a
आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ॥ 002c
इन्द्र उवाच 003
यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः । 003a
तस्माल्लोकास्त्वन्तवन्तस्तवे मेक्षीणे पुण्ये पतिताऽस्यद्य राजन् ॥ 003c
ययातिरुवाच 004
सुरर्षिगन्धर्वनरावमानात्क्षयं गता मे यदि शक्रलोकाः । 004a
इच्छाम्यहं सुरलोकाद्विहीनःसतां मध्ये पतितुं देवराज ॥ 004c
इन्द्र उवाच 005
सतां सकाशे पतिताऽसि राजंश्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः । 005a
एतद्विदित्वा च पुनर्ययातेत्वं माऽवमंस्थाः सदृशः श्रेयसश्च ॥ 005c
वैशम्पायन उवाच 006
ततः प्रहायामरराजजुष्टान्पुण्याल्ँलोकान्पतमानं ययातिम् । 006a
सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्तमुवाच सद्धर्मविधानगोप्ता ॥ 006c
अष्टक उवाच 007
कस्त्वं युवा वासवतुल्यरूपःस्वतेजसा दीप्यमानो यथाऽग्निः । 007a
पतस्युदीर्णाम्बुधरान्धकारात्खात्खेचराणां प्रवरो यथाऽर्कः ॥ 007c
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् । 008a
किं नु स्विदेतत्पततीति सर्वेवितर्कयन्तः परिमोहिताः स्मः ॥ 008c
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् । 009a
अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः ॥ 009c
न चापि त्वां धृष्णुमः प्रष्टुमग्रेन च त्वमस्मान्पृच्छसि ये वयं स्मः । 010a
तत्त्वां पृच्छामि स्पृहणीयरूपकस्य त्वं वा किन्निमित्तं त्वमागाः ॥ 010c
भयं तु ते व्येतु विषादमोहौत्यजाशु चैवेन्द्रसमप्रभाव । 011a
त्वां वर्तमानं हि सतां सकाशेनालं प्रसोढुं बलहाऽपि शक्रः ॥ 011c
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प । 012a
ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ 012c
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । 013a
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ ॥ 013c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥ 1-82-3 अवमंस्थाः सर्वेभ्य आत्मन आधिक्योक्त्या । सदृशः सदृशान् ॥ 1-82-5 यत्र पतिता प्रतिष्ठां लब्धासि लप्स्यसि ॥ 1-82-10 धुष्णुमः प्रगल्भामहे ॥ 1-82-13 आवपने सङ्ग्रहे बीजावापे वा ॥ द्व्यशीतितमोऽध्यायः ॥ 82 ॥