अध्यायः 081
इन्द्रययातिसंवादः ॥ 1 ॥
वैशम्पायन उवाच । 001
स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि । 001a
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥ 001c
देवलोकं ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी । 002a
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ 002c
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् । 003a
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥ 003c
शक्र उवाच । 004
यदा स पूरुस्तव रूपेण राजञ्जरां गृहीत्वा प्रचचार भूमौ । 004a
तदा च राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥ 004c
ययातिरुवाच । 005
गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव । 005a
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥ 005c
'न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च । 006a
जैह्यं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥ 006c
मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् । 007a
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥ 007c
अशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः । 008a
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥ 008c
रूपवन्तमरूपी च धनवन्तं च निर्धनः । 009a
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥ 009c
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् । 010a
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥ 010c
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा । 011a
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥ 011c
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् । 012a
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥ 012c
अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् । 013a
इन्द्र उवाच । 013
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् । 013c
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥ 013e
ययातिरुवाच' 014
अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । 014a
अमानुषेभ्यो मानुषाश्च प्रधानाविद्वांस्तथैवाविदुषः प्रधानः ॥ 014c
आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः । 015a
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 015c
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत । 016a
ययाऽस्य वाचा पर उद्विजेतन तां वदेद्रुशतीं पापलोक्याम् ॥ 016c
अरुन्तुदं पुरुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् । 017a
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम् ॥ 017c
सद्भिः पुरस्तादभिपूजितः स्यात्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । 018a
सदाऽसतामतिवादांस्तितिक्षेत्सतां वृत्तं चाददीतार्यवृत्तः ॥ 018c
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि । 019a
परस्य ये मर्मसु सम्पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ 019c
नहीदृशं संवननं त्रिषु लोकेषु विद्यते । 020a
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ 020c
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । 021a
पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥ 021c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥ 1-81-16 अस्य आक्रोष्टुः सुकृतं तितिक्षुर्विन्दति । रुशतीम् अकल्याणी ॥ 1-81-17 निर्ऋति दुर्देवताम् ॥ 1-81-20 संवननं वशीकरणम् ॥ एकाशीतितमोऽध्यायः ॥ 81 ॥