अध्यायः 078 स्वजरामनङ्गीकुर्वतां यदुप्रभृतीनां ययातिना शापः ॥ 1 ॥ तामङ्गीकुर्वतः पूरोर्वरदानम् ॥ 2 ॥ वैशम्पायन उवाच 001
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि । 001a
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ 001c
ययातिरुवाच 002
जरावली च मां तात पलितानि च पर्यगुः । 002a
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ 002c
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । 003a
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ 003c
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । 004a
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 004c
यदुरुवाच 005
जरायां बहवो दोषाः पानभोजनकारिताः । 005a
तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः ॥ 005c
सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः । 006a
वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः ॥ 006c
अशक्तः कार्यकरणे परिभूतः स यौवतैः । 007a
सहोपजीविभिश्चैव तां जरां नाभिकामये ॥ 007c
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । 008a
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै ॥ 008c
ययातिरुवाच 009
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । 009a
तस्मादराज्यभाक्तात प्रजा तव भविष्यति ॥ 009c
'प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह ।' 010a
'तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । 010c
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ 010e
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । 011a
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 011c
तुर्वसुरुवाच 012
न कामये जरां तात कामभोगप्रणाशिनीम् । 012a
बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम् ॥ 012c
ययातिरुवाच 013
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । 013a
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ 013c
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च । 014a
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥ 014c
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च । 015a
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥ 015c
वैशम्पायन उवाच 016
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । 016a
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ 016c
ययातिरुवाच 017
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । 017a
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥ 017c
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । 018a
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥ 018c
द्रुह्युरुवाच 019
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । 019a
वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये ॥ 019c
ययातिरुवाच 020
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । 020a
तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ 020c
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च । 021a
हस्तिनां पीठकानां च गर्दभानां तथैव च ॥ 021c
बस्तानां च गवां चैव शिबिकायास्तथैव च । 022a
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति । 022c
ययातिरुवाच 023
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । 023a
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ 023c
अनुरुवाच 024
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा । 024a
न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ 024c
ययातिरुवाच 025
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । 025a
जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे ॥ 025c
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव । 026a
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥ 026c
वैशम्पायन उवाच 027
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान् । 027a
पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम् ॥ 027c
ययातिरुवाच 028
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि । 028a
जरा वली च मां तात पलितानि च पर्यगुः ॥ 028c
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने । 029a
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । 029c
कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥ 029e
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । 030a
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ 030c
वैशम्पायन उवाच 031
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । 031a
यदात्थ मां महाराज तत्करिष्यामि ते वचः ॥ 031c
'गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् । 032a
गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः ॥ 032c
गुरोरनुमतं प्राप्य सर्वान्कामानवाप्नुयात् । 033a
यावदिच्छसि तावच्च धारयिष्यामि ते जराम्' ॥ 033c
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । 034a
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ 034c
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । 035a
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥ 035c
ययातिरुवाच 036
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । 036a
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ 036c
वैशम्पायन उवाच 037
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः । 037a
सङ्क्रामयामास जरां तदा पूरौ महात्मनि ॥ 037c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥ 1-78-2 वली त्वचःसंवलनम् । पलितानि केशरोम्णां शौक्ल्यम् । पर्यगुः परितः शरीरे गतानि प्राप्तानियौवने यौवनसाध्ये कामभोगे ॥ 1-78-3 पाप्मानं भोगसामर्थ्येऽपि तदिच्छारूपं चित्तस्य दौस्थ्यम् । चरेयं भुञ्जीय ॥ 1-78-5 दोषाः कफाद्याधिक्याद्वमनादयः ॥ 1-78-15 तिर्यग्योनीनामिव गतं प्रकाशं मैथुनाद्याचरणं येप तेषु ॥ 1-78-21 पीठकानां राजयोग्यानां नरयानविशेषाणां तखतरावा इति म्लेच्छेषु प्रसिद्धानाम् ॥ 1-78-26 अग्निप्रस्कन्दनं श्रौतस्मार्ताद्यग्निसाध्यकर्मत्यागस्तत्परः ॥ 1-78-28 वरीयान्स्वभ्रातृभ्यो महान् । जरो देहेन्द्रियशक्तिघातः ॥ 1-78-31 अञ्जसा आर्जवेन ॥ 1-78-34 यथेप्सितान् यावज्जीवम् ॥ अष्टसप्ततितमोऽध्यायः ॥ 78 ॥