अध्यायः 073
शुक्रदेवयानीसंवादः ॥ 1 ॥
शुक्र उवाच । 001
यः परेषां नरो नित्यमतिवादांस्तितिक्षते । 001a
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ 001c
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा । 002a
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ 002c
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति । 003a
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ 003c
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति । 004a
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ 004c
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते । 005a
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥ 005c
यो यजेदपरिश्रान्तो मासिमासि शतं समाः । 006a
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥ 006c
तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ । 007a
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥ 007c
तस्मादक्रोधने यज्ञतपोदानफलं महत् । 008a
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥ 008c
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् । 009a
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥ 009c
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता । 010a
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥ 010c
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । 011a
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम् ॥ 011c
देवयान्युवाच । 012
वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम् । 012a
अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥ 012c
'स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः । 013a
'शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥ 013c
'प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः । 014a
'तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥ 014c
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । 015a
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ 015c
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा । 016a
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ 016c
सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः । 017a
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥ 017c
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना । 018a
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥ 018c
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते । 019a
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥ 019c
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः । 020a
ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥' 020c
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः । 021a
मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥ 021c
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु । 022a
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ 022c
मरणं शोभनं तस्य इति विद्वज्जना विदुः । 023a
अवमानमवाप्नोति शनैर्नीचसमागमात् ॥ 023c
अतिवादा वक्त्रतो निःसरन्तियैराहतः शोचति रात्र्यहानि । 024a
परस्य वै मर्मसु ते पतन्तितस्माद्धीरो नैव मुच्येत्परेषु ॥ 024c
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना । 025a
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥ 025c
संरोहित शरैर्विद्धं नवं परशुना हतम् । 026a
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्' ॥ ॥ 026c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
1-73-2 रश्मिषु क्रोधफलभूतास्वापत्सु । पक्षे स्पष्टोऽर्थः ॥ 1-73-3 अक्रोधेन क्रोधविरोधिना सहनेन ॥ त्रिसप्ततितमोऽध्यायः ॥ 73 ॥