अध्यायः 071
स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः ॥ 1 ॥ कचदेवयान्योः परस्परशापदानम् ॥ 2 ॥
वैशम्पायन उवाच । 001
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम् । 001a
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥ 001c
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च । 002a
भ्राजसे विद्यया चैव तपसा च दमेन च ॥ 002c
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः । 003a
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥ 003c
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । 004a
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ 004c
स समावृतविद्यो मां भक्तां भजितुमर्हसि । 005a
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥ 005c
कच उवाच । 006
पूज्यो मान्यश्च भगवान्यथा तव पिता मम । 006a
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥ 006c
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः । 007a
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ 007c
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । 008a
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ 008c
देवयान्युवाच । 009
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः । 009a
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम ॥ 009c
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः । 010a
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे ॥ 010c
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । 011a
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ 011c
कच उवाच । 012
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि । 012a
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे ॥ 012c
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । 013a
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ 013c
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे । 014a
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥ 014c
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । 015a
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे । 015c
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥ 015e
देवयान्युवाच । 016
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः । 016a
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ 016c
कच उवाच । 017
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः । 017a
गुरुणा चाननुज्ञातः काममेवं शपस्व माम् ॥ 017c
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया । 018a
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः ॥ 018c
तस्माद्भवत्या यः कामो न तथा स भविष्यति । 019a
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ 019c
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा । 020a
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ 020c
वैशम्पायन उवाच । 021
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा । 021a
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ 021c
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः । 022a
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन् ॥ 022c
देवा ऊचुः । 023
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम् । 023a
न ते यशः प्रणशिता भागभाक्व भविष्यसि ॥ ॥ 023c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
1-71-1 समावृतव्रतं समाप्तव्रतम् ॥ 1-71-9 गुरुः पुत्रो यस्य अङ्गिरसः पुत्रः पौत्रः ॥ 1-71-15 उत्थिता अनलसा ॥ 1-71-17 अननुज्ञातस्त्वदुक्तकार्ये ॥ 1-71-23 प्रणशिता प्रणङ्क्ष्यति ॥ एकसप्ततितमोऽध्यायः ॥ 71 ॥