अध्यायः 070
ययात्युपाख्यानारम्भः ॥ 1 ॥ सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम् ॥ 2 ॥ कचस्य शिष्यत्वेनाङ्गीकारः ॥ 3 ॥ दैत्यैर्हतस्य कचस्योज्जीवनम् ॥ 4 ॥ दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम् ॥ 5 ॥ शुक्रेण सुरापाननिषेधः ॥ 6 ॥
जनमेजय उवाच । 001
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः । 001a
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ 001c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । 002a
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक् ॥ 002c
वैशम्पायन उवाच । 003
ययातिरासीन्नृपतिर्देवराजसमद्युतिः । 003a
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ 003c
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते जनमेजय । 004a
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ 004c
सुराणामसुराणां च समजायत वै मिथः । 005a
ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥ 005c
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् । 006a
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥ 006c
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् । 007a
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् ॥ 007c
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् । 008a
ततस्ते पुनरुत्थाय योधयाञ्चक्रिरे सुरान् ॥ 008c
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि । 009a
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥ 009c
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान् । 010a
सञ्जीविनीं ततो देवा विषादमगमन्परम् ॥ 010c
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा । 011a
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ 011c
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् । 012a
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि ॥ 012c
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि । 013a
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः ॥ 013c
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् । 014a
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ॥ 014c
देवयानीं च दयितां सुतां तस्य महात्मनः । 015a
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥ 015c
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च । 016a
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ 016c
वैशम्पायन उवाच । 017
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः । 017a
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः ॥ 017c
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः । 018a
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥ 018c
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । 019a
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान् ॥ 019c
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ । 020a
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥ 020c
शुक्र उवाच । 021
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । 021a
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ 021c
वैशम्पायन उवाच । 022
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । 022a
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ 022c
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत । 023a
आराधयन्नुपाध्यायं देवयानीं च भारत ॥ 023c
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः । 024a
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ 024c
स शीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । 025a
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥ 025c
देवयान्यपि तं विप्रं नियमव्रतधारिणम् । 026a
गायन्ती च ललन्ती च रहः पर्यचरत्तथा ॥ 026c
गायन्तं चैव शुल्कं च दातारं प्रियवादिनम् । 027a
नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥' 027c
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् । 028a
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥ 028c
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः । 029a
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥ 029c
हत्वा शालावृकेभ्यश्च प्रायच्छल्ँलवशः कृतम् । 030a
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ॥ 030c
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् । 031a
उवाच वचनं काले देवयान्यथ भारत ॥ 031c
देवयान्युवाच । 032
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । 032a
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ 032c
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । 033a
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते ॥ 033c
शुक्र उवाच । 034
अयमेहीति संशब्द्य मृतं सञ्जीवयाम्यहम् । 034a
वैशम्पायन उवाच । 035
ततः सञ्जीविनीं विद्यां प्रयुज्य कचमाह्वयत् ॥ 034c
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः । 035a
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ॥ 035c
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् । 036a
कच उवाच । 036
समिधश्च कुशादीनि काष्ठभारं च भामिनि ॥ 036c
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः । 037a
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ॥ 037c
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् । 038a
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ॥ 038c
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः । 039a
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं ॥ 039c
आहूतो विद्यया भद्रे भार्गवेण महात्मना । 040a
त्वत्समीपमिहायातः कथञ्चित्प्राप्तजीवितः ॥ 040c
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया । 041a
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज ॥ 041c
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम् । 042a
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् ॥ 042c
चिरं गतं पुनः कन्या पित्रे तं सन्न्यवेदयत् । 043a
विप्रेण पुनराहूतो विद्यया गुरुदेहजः । 043c
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ॥ 043e
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः । 044a
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा ॥ 044c
अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः । 045a
सा सायन्तनवेलायामगोपा गाः समागताः ॥ 045c
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत् । 046a
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥ 046c
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । 047a
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ 047c
वैशम्पायन उवाच । 048
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम् । 048a
ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप' ॥ 048c
शुक्र उवाच । 049
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । 049a
विद्यया जीवितोऽप्येवं हन्यते करवाम किम् ॥ 049c
मैवं शुचो मा रुद देवयानिन त्वादृशी मर्त्यमनुप्रशोचते । 050a
यस्यास्तव ब्रह्म च ब्राह्मणाश्चसेन्द्रा देवा वसवोऽथाश्विनौ च ॥ 050c
सुरद्विषश्चैव जगच्च सर्व-मुपस्थाने सन्नमन्ति प्रभावात् । 051a
अशक्योऽसौ जीवयितुं द्विजातिःसञ्जीवितो वध्यते चैव भूयः ॥ 051c
देवयान्युवाच । 052
यस्याङ्गिरा वृद्धतमः पितामहोबृहस्पतिश्चापि पिता तपोनिधिः । 052a
ऋषेः पुत्रं तमथो वापि पौत्रङ्कथं न शोचेयमहं न रुद्याम् ॥ 052c
स ब्रह्मचारी च तपोधनश्चसदोत्थितः कर्मसु चैव दक्षः । 053a
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्येप्रियो हि मे तात कचोऽभिरूपः ॥ 053c
शुक्र उवाच । 054
असंशयं मामसुरा द्विषन्तिये शिष्यं मेऽनागसं सूदयन्ति । 054a
अब्राह्मणं कर्तुमिच्छ्ति रौद्रा-स्ते मां यथा व्यभिचरन्ति नित्यम् । 054c
अप्यस्य पापस्य भवेदिहान्तःकं ब्रह्महत्या न दहेदपीन्द्रम् ॥ 054e
वैशम्पायन उवाच । 055
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् । 055a
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥ 055c
कचोऽपि राजन्स महानुभावोविद्याबलाल्लब्धमतिर्महात्मा ।' 056a
गुरोर्हि भीतो विद्यया चोपहूतः । 056c
शनैर्वाक्यं जठरे व्याजहार ॥ 056e
प्रसीद भगवन्मह्यं कचोऽहमभिवादये । 057a
यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् ॥' 057c
वैशम्पायन उवाच । 058
तमब्रवीत्केन पथोपनीत-स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र । 058a
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्यगच्छामि देवानहमद्य विप्र ॥ 058c
कच उवाच । 059
तव प्रसादान्न जहाति मां स्मृतिःस्मरामि सर्वं यच्च यथा च वृत्तम् । 059a
नत्वेवं स्यात्तपसः सङ्क्षयो मेततः क्लेशं घोरमिमं सहामि ॥ 059c
असुरैः सुरायां भवतोऽस्मि दत्तोहत्वा दग्ध्वा चूर्णयित्वा च काव्य । 060a
ब्राह्मीं मायां चासुरीं विप्र मायान्त्वयि स्थिते कथमेवातिवर्तेत् ॥ 060c
शुक्र उवाच । 061
किं ते प्रियं करवाण्यद्य वत्सेवधेन मे जीवितं स्यात्कचस्य । 061a
नान्यत्र कुक्षेर्मम भेदनेनदृश्येत्कचो मद्गतो देवयानि ॥ 061c
देवयान्युवाच । 062
द्वौ मां शोकावग्निकल्पौ दहेताङ्कचस्य नाशस्तव चैवोपघातः । 062a
कचस्य नाशे मम शर्म नास्तितवोपघाते जीवितुं नास्मि शक्ता ॥ 062c
शुक्र उवाच । 063
संसिद्धरूपोऽसि बृहस्पतेः सुतयत्त्वां भक्तं भजते देवयानी । 063a
विद्यामिमां प्राप्नुहि जीवनीं त्वन्न चेदिन्द्रः कचरूपी त्वमद्य ॥ 063c
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् । 064a
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ 064c
पुत्रो भूत्वा भावय भावितो मा-मस्मद्देहादुपनिष्क्रम्य तात । 065a
समीक्षेथा धर्मवतीमवेक्षाङ्गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ 065c
वैशम्पायन उवाच । 066
गुरोः सकाशात्समवाप्य विद्याम्भित्त्वा कुक्षिं निर्विचक्राम विप्रः । 066a
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्यशुक्लात्यये पौर्णमास्यामिवेन्दुः ॥ 066c
दृष्ट्वा च तं पतितं ब्रह्मराशि-मुत्थापयामास मृतं कचोऽपि । 067a
विद्यां सिद्धां तामवाप्याभिवाद्यततः कचस्तं गुरुमित्युवाच ॥ 067c
यः श्रोत्रयोरमृतं सन्निषिञ्चे-द्विद्यामविद्यस्य यथा त्वमार्यः । 068a
तं मन्येऽहं पितरं मातरं चतस्मै न द्रुह्येत्कृतमस्य जानन् ॥ 068c
ऋतस्य दातारमनुत्तमस्यनिधिं निधीनामपि लब्धविद्याः । 069a
ये नाद्रियन्ते गुरुमर्चनीयम्पापाल्ँलोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥ 069c
वैशम्पायन उवाच । 070
सुरापानाद्वञ्चनां प्राप्य विद्वा-न्सञ्ज्ञानाशं चैव महातिघोरम् । 070a
दृष्ट्वा कचं चापि तथाभिरूपम्पीतं तदा सुरया मोहितेन ॥ 070c
समन्युरुत्थाय महानुभाव-स्तदोशना विप्रहितं चिकीर्षुः । 071a
सुरापानं प्रति सञ्जातमन्युःकाव्यः स्वयं वाक्यमिदं जगाद ॥ 071c
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि-न्मोहात्सुरां पास्यति मन्दबुद्धिः । 072a
अपेतधर्मा ब्र्हमहा चैव स स्या-दस्मिंल्लोके गर्हितः स्यात्परे च ॥ 072c
मया चैतां विप्रधर्मोक्तिसीमाम्मर्यादां वै स्थापितां सर्वलोके । 073a
सन्तो विप्राः शुश्रुवांसो गुरूणान्देवा लोकाश्चोपशृण्वन्तु सर्वे ॥ 073c
वैशम्पायन उवाच । 074
इतीदमुक्त्वा स महानुभाव-स्तपोनिधीनां निधिरप्रमेयः । 074a
तान्दानवान्दैवविमूढबुद्धी-निदं समाहूय वचोऽभ्युवाच ॥ 074c
आचक्षे वो दानवा बालिशाः स्थसिद्धः कचो वत्स्यति मत्सकाशे । 075a
सञ्जीविनीं प्राप्य विद्यां महात्मातुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥ 075c
योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः । 076a
न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति ॥ 076c
वैशम्पायन उवाच ।' 077
एतावदुक्त्वा वचनं विरराम स भार्गवः । 077a
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥ 077c
गुरोरुष्य सकाशे तु दश वर्षशतानि सः । 078a
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ ॥ 078c
इति श्रीमन्मेहाभारते आदिपर्वणि सम्भवपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥
1-70-3 विप्रदानवौ वव्राते जामातृत्वेनेति शेषः ॥ 1-70-25 प्रेषणैः प्रेष्यत्वादिभिः ॥ 1-70-31 उवाच शुक्रं प्रति ॥ 1-70-39 पेषः पिष्टम् । पिष्टीकृत्येत्यर्थः ॥ 1-70-43 गुरुदेहजः कचः । आवृत्य आगत्य । तद्वृत्तमसुरचेष्टितम् ॥ 1-70-44 ब्राह्मणाय शुक्राय ॥ 1-70-50 मर्त्यं त्वं तु मत्प्रभावादमरकल्पासि । ब्रह्म वेदः तस्य नमनं स्वार्थप्रकाशेन ॥ 1-70-60 चाद्दैवीं मायां । मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेदतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः ॥ 1-70-65 भावय जीवय भावितो मया जीवितः । कृतघ्नो मा भूरिति भावः ॥ 1-70-66 शुक्लस्याह्नो रवेर्वा अत्यये शुक्लात्यये ॥ 1-70-69 ऋतस्य वेदस्य । निधीनां विद्यानां निधिमाश्रयम् । प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः ॥ सप्ततितमोऽध्यायः ॥ 70 ॥