अध्यायः 069
कुरुवंशकथनम् ॥ 1 ॥ सङ्क्षेपेण ययात्युपाख्यानम् ॥ 2 ॥
जनमेजय उवाच । 001
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् । 001a
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥ 001c
इमं तु भूय इच्छामि कुरूणां वंशमादितः । 002a
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥ 002c
वैशम्पायन उवाच । 003
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् । 003a
पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् ॥ 003c
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च । 004a
भरतस्य कुरोः पूरोराजमीढस्य चानघ ॥ 004c
यादवानामिमं वंशं कौरवाणां च सर्वशः । 005a
तथैव भरतानां च पुण्यं स्वस्त्ययनं महत् ॥ 005c
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ । 006a
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ॥ 006c
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः । 007a
मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः ॥ 007c
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः । 008a
सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥ 008c
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । 009a
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥ 009c
सहस्रसङ्ख्यानसम्भूतान्दक्षपुत्रांश्च नारदः । 010a
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥ 010c
नाशार्थं योजयामास दिगन्तज्ञानकर्मसु' । 011a
ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे । 011c
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥ 011e
ददौ दश स धर्माय कश्यपाय त्रयोदश । 012a
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ 012c
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । 013a
मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत् ॥ 013c
इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च । 014a
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ॥ 014c
'मार्ताण्डस्य यमी चापि सुता राजन्नजायत' । 015a
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ॥ 015c
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः । 016a
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥ 016c
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः । 017a
ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम् ॥ 017c
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन् । 018a
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ॥ 018c
कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम् । 019a
पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम् ॥ 019c
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते । 020a
पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ॥ 020c
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् । 021a
पुरूरवास्ततो विद्वानिलायां समपद्यत ॥ 021c
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् । 022a
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ 022c
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः । 023a
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ॥ 023c
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि । 024a
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ॥ 024c
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ । 025a
ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत ॥ 025c
लोभान्वितो बलमदान्नष्टसञ्ज्ञो नराधिपः । 026a
स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् ॥ 026c
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा । 027a
षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः ॥ 027c
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः । 028a
नहुषं वृद्धशर्माणं रजिं गयमनेनसम् ॥ 028c
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते । 029a
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ॥ 029c
राज्यं शशास सुमहद्धर्मेण पृथिवीपते । 030a
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ॥ 030c
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः । 031a
स हत्वा दस्युसङ्घातानृषीन्करमदापयत् ॥ 031c
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् । 032a
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ॥ 032c
तेजसा तपसा चैव विक्रमेणौजसा तथा ।' 033a
विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्' । 033c
यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ॥ 033e
नहुषो जनयामास षट् सुतान्प्रियवादिनः । 034a
यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः ॥ 034c
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः । 035a
स पालयामास महीमीजे च बहुभिर्मखैः ॥ 035c
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा । 036a
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥ 036c
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः । 037a
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ 037c
देवयान्यामजायेतां यदुस्तुर्वसुरेव च । 038a
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे ॥ 038c
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् । 039a
जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥ 039c
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत् । 040a
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥ 040c
यौवनेन चरन्कामान्युवा युवतिभिः सह । 041a
बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥ 041c
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत् । 042a
किं कार्यं भवतः कार्यमस्माकं यौवनेन ते ॥ 042c
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् । 043a
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ 043c
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः । 044a
कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः ॥ 044c
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः । 045a
अहं तन्वाऽभिनवया युवा काममवाप्नुयाम् ॥ 045c
वैशम्पायन उवाच । 046
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् । 046a
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥ 046c
राजंश्चराभिनवया तन्वा यौवनगोचरः । 047a
अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया ॥ 047c
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् । 048a
सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥ 048c
पौरवेणाथ वयसा राजा यौवनमास्थितः । 049a
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥ 049c
ततो वर्षसहस्राणि ययातिरपराजितः । 050a
स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ॥ 050c
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च । 051a
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥ 051c
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः । 052a
अवेत्य मनसा राजन्निमां गाथां तदा जगौ ॥ 052c
न जातु कामः कामानामुपभोगेन शाम्यति । 053a
इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 053c
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 054a
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ 054c
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् । 055a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 055c
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति । 056a
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ 056c
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप । 057a
समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् ॥ 057c
ततो वर्षसहस्रान्ते ययातिरपराजितः । 058a
'दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च । 058c
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥ 058e
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः । 059a
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥ 059c
वैशम्पायन उवाच । 060
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च । 060a
ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः ॥ 060c
कालेन महता पश्चात्कालधर्ममुपेयिवान् । 061a
कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥ ॥ 061c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥
1-69-7 प्राचेतसः प्राचे देशाय यज्ञक्रियया अतति सततं गच्छतीति प्राचेताः तस्य प्राचेतसः प्राचीनबर्हिषः । पुण्यजनाः पुण्योत्पादकास्तपः शीला इत्यर्थः । यैस्ते महौजसो महाप्रभावा वृक्षौषधयो दग्धाः ॥ 1-69-9 वीरिण्या वीरणपुत्र्या ॥ 1-69-10 मोक्षं मोक्षहेतुं । साङ्ख्यज्ञानं विवेकजं विज्ञानम् ॥ 1-69-15 यमी यमुना ॥ 1-69-21 अन्योन्यभेदात्परस्परवैरात् ॥ 1-69-22 मातैव लब्धपुम्भावा राज्य दानात्पिताप्यभूत् । मुख्यः पिता तु बुध एव ॥ 1-69-25 अनुदश दर्शो दर्शनं स पश्चाद्यस्य स श्रुतियुक्त्युपदेशोऽनुदर्शस्तं तत स्तदुपदेशमित्यर्थः ॥ 1-69-26 विराड्विराजमानः ॥ 1-69-27 त्रिधा गार्हपत्यदक्षिणाग्न्याहवनीयभेदेन । आयुःशब्दः उक रान्तः सान्तश्च ॥ 1-69-42 कार्यं प्रयोजनम् । कार्यं कर्तव्यम् ॥ 1-69-44 व्रतनिर्बन्धाच्छुक्रशापाच्च कामरूपः पुरुषार्थो हीनः ॥ 1-69-47 तेज्ञया तव आज्ञया । पूर्वरूपमाकारलोपो वार्षः ॥ 1-69-52 कामामां कामभोगेन । अवेत्य कामसेवया तृप्त्यभावं ज्ञात्वा ॥ 1-69-53 हविषा समिदाज्यादिना ॥ 1-69-54 एकस्य कामिनः सर्वं नालमपर्याप्तम् । शमं कामशान्तिम् ॥ 1-69-59 दायादवान् पुत्रवान् ॥ 1-69-61 कारयित्वा कृत्वा ॥ एकोनसप्ततितमोऽध्यायः ॥ 69 ॥