अध्यायः 066

(अथ सम्भवपर्व ॥ 7 ॥)

अदित्यादिदक्षकन्यावंशकथनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
अथ नारायणेनेन्द्रश्चकार सह संविदम् । 001a
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥ 001c
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः । 002a
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥ 002c
तेऽमरारिविनाशाय सर्वलोकहिताय च । 003a
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः ॥ 003c
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च । 004a
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ 004c
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा । 005a
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः ॥ 005c
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा । 006a
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥ 006c
जनमेजय उवाच । 007
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा । 007a
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥ 007c
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः । 008a
प्राणिनां चैव सर्वेषां सम्भवं वक्तुमर्हसि ॥ 008c
वैशम्पायन उवाच । 009
हन्त ते कथयिष्यामि नमस्कृत्य स्वयम्भुवे । 009a
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥ 009c
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । 010a
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ 010c
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः । 011a
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ 011c
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा । 012a
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः ॥ 012c
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत । 013a
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥ 013c
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । 014a
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥ 014c
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च । 015a
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥ 015c
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । 016a
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः ॥ 016c
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः । 017a
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः ॥ 017c
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम् । 018a
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥ 018c
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत । 019a
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥ 019c
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् । 020a
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥ 020c
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः । 021a
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत ॥ 021c
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः । 022a
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः ॥ 022c
असिलोमा च केशी च दुर्जयश्चैव दानवः । 023a
अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान् ॥ 023c
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः । 024a
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा ॥ 024c
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः । 025a
इषुपादेकचक्रश्च विरूपाक्षहराहरौ ॥ 025c
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । 026a
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा । 026c
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥ 026e
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ । 027a
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा ॥ 027c
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः । 028a
दनुपुत्रा महाराज दश दानववंशजाः ॥ 028c
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि । 029a
वातापिः शत्रुतपनः शठश्चैव महासुरः ॥ 029c
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः । 030a
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥ 030c
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् । 031a
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम् ॥ 031c
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् । 032a
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः ॥ 032c
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः । 033a
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥ 033c
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः । 034a
प्रविख्याता महावीर्या दानवेषु परन्तपाः ॥ 034c
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च । 035a
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः ॥ 035c
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत् । 036a
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥ 036c
त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ । 037a
तेजसा सूर्यसङ्काशा ब्रह्मलोकपरायणाः ॥ 037c
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् । 038a
असुराणां सुराणां च पुराणे संश्रुतो मया ॥ 038c
एतेषां यदपत्यं तु न शक्यं तदशेषतः । 039a
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥ 039c
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । 040a
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः ॥ 040c
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः । 041a
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः ॥ 041c
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा । 042a
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ 042c
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः । 043a
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥ 043c
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः । 044a
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः ॥ 044c
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ 044e
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत । 045a
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् ॥ 045c
अरूपां सुभगां भासीमिति प्राधा व्यजायत । 046a
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः ॥ 046e
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः । 047a
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ॥ 047c
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः । 048a
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ॥ 048c
अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा । 049a
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा ॥ 049c
अरुणा रक्षिता चैव रम्बा तद्वन्मनोरमा । 050a
केशिनी च सुबाहुश्च सुरता सुरजा तथा ॥ 050c
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः । 051a
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥ 051c
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा । 052a
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥ 052c
इति ते सर्वभूतानां सम्भवः कथितो मया । 053a
यथावत्सम्परिख्यातो गन्धर्वाप्सरसां तथा ॥ 053c
भुजङ्गानां सुपर्णानां रुद्राणां मरुतां तथा । 054a
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥ 054c
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः । 055a
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥ 055c
इमं तु वंशं नियमेन यः पठे-न्महात्मनां ब्राह्मणदेवसन्निधौ । 056a
अपत्यलाभं लभते स पुष्कलंश्रियं यशः प्रेत्य च शोभनां गतिम् ॥ ॥ 056c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥

1-66-2 क्षयात् स्थानात् ॥ 1-66-16 जघन्यजः पश्चाज्जातः ॥ 1-66-32 क्रूरायाः क्रोधायाः ॥ 1-66-39 गुणभूतप्रधानरूपम् ॥ षट्षष्टितमोऽध्यायः ॥ 66 ॥