अध्यायः 065
विस्तरश्रवणेच्छया जनमेजयस्य प्रश्नः ॥ 1 ॥ परशुरामेण लोके निःक्षत्रिये कृते ब्राह्मणेभ्यः क्षत्रस्य पुनरुत्पत्तिः ॥ 2 ॥ तत्कालस्य धर्मभूयिष्ठत्वम् ॥ 3 ॥ देवैर्निर्जितानां दानवानां भूमावुत्पत्तिः ॥ 4 ॥ तद्भूरिभारार्तया पृथ्व्या प्रार्थितस्य ब्रह्मणो देवान्प्रत्यंशावतरणाज्ञापनम् ॥ 5 ॥ अवतारार्थं इन्द्रेण नारायणप्रार्थना ॥ 6 ॥
जनमेजय उवाच । 001
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः । 001a
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः ॥ 1 ॥ 101c
यदर्थमिह सम्भूता देवकल्पा महारथाः । 102a
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥ 102c
वैशम्पायन उवाच । 103
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् । 003a
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥ 003c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा । 004a
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥ 004c
तदा निःक्षत्रिये लोके भार्गवेण कृते सति । 005a
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः ॥ 005c
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । 006a
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥ 006c
तेभ्यश्च लेभिरे गर्भं क्षत्रियास्ताः सहस्रशः । 007a
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान् ॥ 007c
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये । 008a
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ॥ 008c
जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम् । 009a
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ 009c
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । 010a
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥ 010c
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ । 011a
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ॥ 011c
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः । 012a
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥ 012c
अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम् । 013a
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम् ॥ 013c
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् । 014a
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम् ॥ 014c
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः । 015a
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन् ॥ 015c
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः । 016a
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥ 016c
न बाल एव म्रियते तदा कश्चिज्जनाधिप । 017a
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम् ॥ 017c
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ । 018a
इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥ 018c
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः । 019a
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥ 019c
न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप । 020a
न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत ॥ 020c
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह । 021a
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन् ॥ 021c
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः । 022a
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥ 022c
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः । 023a
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥ 023c
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप । 024a
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥ 024c
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ । 025a
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च ॥ 025c
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप । 026a
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥ 026c
एवं समुदिते लोके मानुषे भरतर्षभ । 027a
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर ॥ 027c
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि । 028a
ऐश्वर्याद्धंशिताः स्वर्गात्सम्बभूवुः क्षिताविह ॥ 028c
इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः । 029a
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥ 029c
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च । 030a
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च ॥ 030c
जातैरिह महीपाल जायमानैश्च तैर्मही । 031a
न शशाकात्मनात्मानमियं धारयितुं धरा ॥ 031c
अथ जाता महीपालाः केचिद्बहुमदान्विताः । 032a
दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः ॥ 032c
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् । 033a
इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥ 033c
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् । 034a
अन्यानि चैव सत्वानि पीडयामासुरोजसा ॥ 034c
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते । 035a
विचेरुः सर्वशो राजन्महीं शतसहस्रशः ॥ 035c
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः । 036a
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥ 036c
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः । 037a
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे ॥ 037c
न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम् । 038a
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥ 038c
ततो मही महीपाल भारार्ता भयपीडिता । 039a
जगाम शरणं देवं सर्वभूतपितामहम् ॥ 039c
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः । 040a
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥ 040c
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः । 041a
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा ॥ 041c
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी । 042a
सन्निधौ लोकपालानां सर्वेषामेव भारत ॥ 042c
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः । 043a
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥ 043c
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत । 044a
ससुरासुरलोकानामशेषेण मनोगतम् ॥ 044c
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः । 045a
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥ 045c
ब्रह्मोवाच । 046
यदर्थमभिसम्प्राप्ता मत्सकाशं वसुन्धरे । 046a
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः ॥ 046c
उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत् ।' 047a
वैशम्पायन उवाच । 047
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च । 047c
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥ 047e
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् । 048a
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत् ॥ 048c
तथैव च समानीय गन्धर्वाप्सरसां गणान् । 049a
उवाच भगवान्सर्वानिदं वचनमर्थवत् ॥ 049c
ब्रह्मोवाच । 050
स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च । 050a
वैशम्पायन उवाच । 050
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः । 050c
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥ 050e
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः । 051a
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥ 051c
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः । 052a
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ 052c
प्रजापतिपतिर्देवः सुरनाथो महाबलः । 053a
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥ 053c
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । 054a
अंशेनावतरेत्येवं तथेत्याह च तं हरिः ॥ ॥ 054c
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥ ॥ समाप्तमंशावतरणपर्व ॥
1-65-4 त्रिःसप्तकृत्वा एकविंशतिवारान् ॥ 1-65-13 हे गजेन्द्रगत हे गजेन्द्रगमन ॥ 1-65-20 ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न कुर्वत इत्यर्थः ॥ 1-65-21 वैश्याः स्वयं धुरि गा बलीवर्दान् न युञ्जते ॥ 1-65-22 फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरिति शेषः । कूटमानैः कपटतुलाप्रस्थादिभिः ॥ 1-65-29 देवत्वं राजत्वम् ॥ 1-65-36 मही उपचक्रमे गन्तुमिति शेषः ॥ 1-65-48 तिरोधाय स्वंस्वं रूपं प्रच्छाद्य ॥ 1-65-54 शोधनाय कण्टकभूतखलोन्मूलनाय ॥ पञ्चषष्टितमोऽध्यायः ॥ 65 ॥