अध्यायः 064
उपरिचरराजोपाख्यानम् ॥ 1 ॥ इन्द्रध्वजोत्सववृत्तान्तः ॥ 2 ॥ गिरिकाया उत्पत्तिः । उपरिचरस्य तया विवाहश्च ॥ 3 ॥ मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम् ॥ 4 ॥ ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम् ॥ 5 ॥ तदुदरे मिथुनोत्पत्तिः ॥ 6 ॥ तत्र पुत्रस्य उपरिचरवसुना ग्रहणम् । कन्याया दाशगृहे स्थितिः ॥ 7 ॥ नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः । तस्य व्यासनामप्राप्तिश्च ॥ 8 ॥ पाठान्तरे पराशरसत्यवतीविवाहादि ॥ 9 ॥ भीष्मादीनां सङ्क्षेपतो जन्मवृत्तान्तकथनम् ॥ 10 ॥
वैशम्पायन उवाच । 101
राजोपरिचरो नाम धर्मनित्यो महीपतिः । 101a
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः ॥ 101c
स चेदिविषयं रम्यं वसुः पौरवनन्दनः । 102a
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः ॥ 102c
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम् । 103a
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे ॥ 103c
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै । 104a
तं सान्त्वेन नृपं साक्षात्तपसः सन्न्यवर्तयन् ॥ 104c
देवा ऊचुः । 105
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते । 105a
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत् ॥ 105c
इन्द्र उवाच । 106
देवानहं पालयिता पालय त्वं हि मानुषान् ।' 106a
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः । 106c
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान् ॥ 106e
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः । 107a
ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ 107c
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् । 108a
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ 108c
अर्थवानेष देशो हि धनरत्नादिभिर्युतः । 109a
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ 109c
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः । 010a
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥ 010c
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः । 011a
युञ्जते धुरि नो गाश्च कृशान्सन्धुक्षयन्ति च ॥ 011c
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद । 012a
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥ 012c
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत् । 013a
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥ 013c
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । 014a
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव ॥ 014c
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । 015a
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥ 015c
लक्षणं चैतदेवेह भविता ते नराधिप । 016a
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥ 016c
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः । 017a
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम् ॥ 017c
एवं संसान्त्व्य नृपतिं तपसः सन्न्यवर्तयत् । 018a
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ॥ 018c
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः । 019a
इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् ॥' 019c
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । 020a
प्रवेशं कारयामास सर्वोत्सववरं तदा ॥ 020c
मार्गशीर्षे महाराज पूर्वपक्षे महामखम् । 021a
ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः ॥' 021c
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः । 022a
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः ॥ 022c
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः । 023a
'माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसम्मिताम् ॥ 023c
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये । 024a
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम् ॥ 024c
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः । 025a
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा ॥ 025c
शङ्खभेरीमृदङ्गैश्च सन्नादः क्रियते तदा' । 026a
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः ॥ 026c
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः । 027a
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह ॥ 027c
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः । 028a
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा ॥ 028c
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् । 029a
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥ 029c
रमन्ते नागराः सर्वे तथा जानपदैः सह । 030a
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥ 030c
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् । 031a
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः ॥ 031c
महारजनवासांसि वसित्वा चेदिराट् तदा । 032a
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा ॥ 032c
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः ॥ 033a
यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः ॥' 033c
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम् । 034a
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ 034c
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः । 035a
वसुना राजमुख्येन समागम्याब्रवीद्वचः ॥ 035c
ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः । 036a
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥ 036c
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । 037a
तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥ 037c
निरीतिकानि सस्यानि भवन्ति बहुधा नृप । 038a
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथञ्चन ॥ 038c
वैशम्पायन उवाच ।' 039
एवं महात्मना तेन महेन्द्रेण नराधिप । 039a
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः । 039c
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥ 039e
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । 040a
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते । 040c
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च ॥ 040e
सम्पूजितो मघवता वसुश्चेदीश्वरो नृपः । 041a
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥ 041c
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः । 042a
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ॥ 042c
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् । 043a
महारथो मागधानां विश्रुतो यो बृहद्रथः ॥ 043c
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् । 044a
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥ 044c
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः । 045a
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥ 045c
वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः । 046a
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ॥ 046c
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् । 047a
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥ 047c
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । 048a
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥ 048c
गिरिं कोलाहलं तं तु पदा वसुरताडयत् । 049a
निश्चक्राम ततस्तेन प्रहारविवरेण सा ॥ 049c
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम् । 050a
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥ 050c
महिषी भविता कन्या पुमान्सेनापतिर्भवेत् । 051a
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः' ॥ 051c
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः । 052a
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः ॥ 052c
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः । 053a
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत् ॥ 053c
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः । 054a
तदहः पितरश्चैनपूचुर्जहि मृगानिति ॥ 054c
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः । 055a
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः ॥ 055c
चकार मृगयां कामी गिरिकामेव संस्मरन् । 056a
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ 056c
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः । 057a
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥ 057c
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा । 058a
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ॥ 058c
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् । 059a
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् ॥ 059c
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा । 060a
अपश्यन्कामसन्तप्तश्चरमाणो यदृच्छया ॥ 060c
पुष्पसञ्छन्नशाखाग्रं पल्लवैरुपशोभितम् । 061a
अशोकस्तबकैश्छन्नं रमणीयमपश्यत ॥ 061c
अधस्यात्तस्य छायायां सुखासीनो नराधिपः । 062a
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम् ॥ 062c
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् ।' 063a
भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत ।' 063c
तस्य रेतः प्रचस्कन्द चरतो गहने वने ॥ 063e
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः । 064a
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत ॥ 064c
अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः । 065a
अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत् ॥' 065c
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति । 066a
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ 066c
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनःपुनः । 067a
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ 067c
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै । 068a
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥ 068c
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत् । 069a
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ॥ 069c
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै । 070a
वैशम्पायन उवाच । 070
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ॥ 070c
जवं परममास्थाय प्रदुद्राव विहङ्गमः । 071a
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः ॥ 071c
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया । 072a
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ 072c
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि । 073a
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा ॥ 073c
मीनभावमनुप्राप्ता बभूव यमुनाचरी । 074a
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ॥ 074c
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी । 075a
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः ॥ 075c
मासे च दशमे प्राप्ते तदा भरतसत्तम ॥ 076a
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ ॥ 076c
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् । 077a
काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥ 077c
तयोः पुमांसं जग्राह राजोपरिचरस्तदा । 078a
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥ 078c
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत । 079a
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा ॥ 079c
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि । 080a
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः ॥ 080c
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च । 081a
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ 081c
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी । 082a
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति ॥ 082c
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः । 083a
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ॥ 083c
आसीत्सा मत्स्यगन्धैव कञ्चित्कालं शुचिस्मिता । 084a
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम् ॥ 084c
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः । 085a
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् ॥ 085c
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम् । 086a
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः ॥ 086c
सम्भवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः । 087a
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥ 087c
मत्स्यगन्धोवाच । 088
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया । 088a
सहस्रजनसम्पन्ना नौर्मया वाह्यते द्विज ॥ 088c
पराशर उवाच । 089
शोभनं वासवि शुभे किं चिरायसि वाह्यताम् । 089a
कलशं भविता भद्रे सहस्रार्धेन सम्मितम् ॥ 089c
अहं शेषो भिविष्यामि नीयतामचिरेण वै । 090a
वैशम्पायन उवाच । 090
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले ॥ 0890c
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा । 091a
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः ॥ 091c
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् । 092a
पराशर उवाच । 092
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः ॥ 092c
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु । 093a
बर्हिषद इति ख्याताः पितरः सोमपास्तुते ॥ 093c
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता । 094a
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥ 094c
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन । 095a
सम्भूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥ 095c
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् । 096a
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम् ॥ 096c
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् । 097a
सा तेन व्यभिचारेण मनसा कामचारिणी ॥ 097c
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा । 098a
अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥ 098c
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् । 099a
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् ॥ 099c
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी । 100a
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि ॥ 100c
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा । 101a
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात् ॥ 101c
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते । 102a
यैरारभन्ते कर्माणि शरीरैरिह देवताः ॥ 102c
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः । 103a
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ॥ 103c
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे । 104a
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम् ॥ 104c
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता । 105a
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि ॥ 105c
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे । 106a
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥ 106c
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति । 107a
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥ 107c
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् । 108a
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि ॥ 108c
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् । 109a
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ॥ 109c
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा । 110a
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥ 110c
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा । 111a
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम् ॥ 111c
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि । 112a
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥ 112c
सङ्गमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ॥ 113ac
वैशम्पायन उवाच । 114
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता । 114a
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन् ॥ 114c
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः । 115a
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ॥ 115c
येन देशः स सर्वस्तु तमोभूत इवाभवत् । 116a
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ॥ 116c
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी । 117a
सत्यवत्युवाच । 117
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ॥ 117c
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ । 118a
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम ॥ 118c
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे । 119a
एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥ 119c
वैशम्पायन उवाच । 120
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः । 120a
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ 120c
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । 121a
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ 121c
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् । 122a
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः ॥ 122c
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । 123a
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा ॥ 123c
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि । 124a
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि ॥ 124c
तस्या योजनगन्धेति ततो नामापरं स्मृतम् । 125a
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ॥ 125c
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । 126a
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ 126c
स मातरमनुज्ञाप्य तपस्येव मनो दधे । 127a
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ 127c
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । 128a
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः ॥ 128c
पादापसारिणं धर्मं स तु विद्वान्युगे युगे । 129a
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच ॥ 129c
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया । 130a
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः ॥ 130c
वेदानध्यापयामास महाभारतपञ्चमान् । 131a
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ 131c
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च । 132a
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ 132c
1-64a-1a [ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते । 1-64a-1b वीरासनमुपास्थाय योगी ध्यानपरोऽभवत् ॥ 1-64a-2a श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे । 1-64a-2b तूष्णीम्भूतां तदा कन्यां ज्वलन्तीं योगतेजसा ॥ 1-64a-3a दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः । 1-64a-3b स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत् ॥ 1-64a-4a शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः । 1-64a-4b श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः ॥ 1-64a-5a धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः । 1-64a-5b दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम् ॥ 1-64a-6a स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । 1-64a-6b धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते ॥ 1-64a-7a तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते । 1-64a-7b अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते ॥ 1-64a-8a तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत् । 1-64a-8b ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः ॥ 1-64a-9a विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः । 1-64a-9b त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः ॥ 1-64a-10a पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः । 1-64a-10b सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा ॥ 1-64a-11a वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् । 1-64a-11b अपस्मारकुले जातां पिङ्गलाङ्कुष्ठिनीं व्रणीम् ॥ 1-64a-12a न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम् । 1-64a-12b पिता पितामहो भ्राता माता मातुल एव च ॥ 1-64a-13a उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः । 1-64a-13b एतैर्दत्तां निषेवेत नादत्तामाददीत च ॥ 1-64a-14a इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः । 1-64a-14b अस्या नास्ति पिता भ्राता माता मातुल एव च ॥ 1-64a-15a गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया । 1-64a-15b क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि ॥ 1-64a-16a यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः । 1-64a-16b क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः ॥ 1-64a-17x वैशम्पायन उवाच । 1-64a-17a एवं चिन्तयतो भावं महर्षेर्भावितात्मनः । 1-64a-17b ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा ॥ 1-64a-18a तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान् । 1-64a-18b पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत ॥ 1-64a-19x पितृगणा ऊचुः । 1-64a-19a अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम् । 1-64a-19b यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम् ॥ 1-64a-20a पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत । 1-64a-20b महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम् ॥ 1-64a-21a पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् । 1-64a-21b एवं सम्भाषमाणे तु वसिष्ठे पितृभिः सह ॥ 1-64a-22a ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः । 1-64a-22b विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः ॥ 1-64a-23a अरुन्धती महाभागा अदृश्यन्त्या सहैव सा । 1-64a-23b विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा ॥ 1-64a-24a वैवाहिकांस्तु सम्भारान्सङ्कल्प्य च यथाक्रमम् । 1-64a-24b अरुन्धती सत्यवतीं वधूं सङ्गृह्य पाणिना ॥ 1-64a-25a भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत् । 1-64a-25b आपूर्यमाणपक्षे तु वैशाखे सोमदैवते ॥ 1-64a-26a शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते । 1-64a-26b विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह ॥ 1-64a-27a यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः । 1-64a-27b स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च ॥ 1-64a-28a अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः । 1-64a-28b जलपूर्णघटैश्चैव सर्वतः परिशोभितम् ॥ 1-64a-29a तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा । 1-64a-29b सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि ॥ 1-64a-30a कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् । 1-64a-30b वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः ॥ 1-64a-31a गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे । 1-64a-31b अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः ॥ 1-64a-32a स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् । 1-64a-32b वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च ॥ 1-64a-33a उवाच वचनं काले कालज्ञः सर्वधर्मवित् । 1-64a-33b प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा ॥ 1-64a-34a यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम् । 1-64a-34x वैशम्पायन उवाच । 1-64a-34b तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥ 1-64a-35a श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-35b वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन् ॥ 1-64a-36a मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः । 1-64a-36b पराशराय मुनये दातुमर्हसि धर्मतः ॥ 1-64a-37x वसुरुवाच । 1-64a-37a सत्यं मम सुता सा हि दाशराजेन वर्धिता । 1-64a-37b अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् ॥ 1-64a-38x पितर ऊचुः । 1-64a-38a निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-38b कन्यादानेन सम्बन्धो दक्षिणाबन्ध उच्यते ॥ 1-64a-39a कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम् । 1-64a-39b इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः ॥ 1-64a-40a इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः । 1-64a-40b दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते ॥ 1-64a-41a दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते । 1-64a-41b तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते ॥ 1-64a-42a सुतात्वं तव सम्प्राप्तां सतीं भिक्षां ददस्व वै । 1-64a-42b इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा ॥ 1-64a-43x वैशम्पायन उवाच । 1-64a-43a याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत । 1-64a-43b वसुं चापि समाहूय वसिष्ठो मुनिभिः सह ॥ 1-64a-44a विवाहं कारयामास विधिदृष्टेन कर्मणा । 1-64a-44x वसुरुवाच । 1-64a-44b पराशर महाप्राज्ञ तव दास्याम्यहं सुताम् ॥ 1-64a-45a प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । 1-64a-45x वैशम्पायन उवाच । 1-64a-45b वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः ॥ 1-64a-46a कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत् । 1-64a-46b प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम् ॥ 1-64a-47a त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् । 1-64a-47b महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच ॥ 1-64a-48a लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत् । 1-64a-48b पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा ॥ 1-64a-49a हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति । 1-64a-49b एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः ॥ 1-64a-50a पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । 1-64a-50b जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ 1-64a-51a जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा । 1-64a-51b स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः ॥ 1-64a-52a स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् । 1-64a-52b गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः ॥ 1-64a-53a ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा । 1-64a-53b अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना ॥ 1-64a-54a स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत् । 1-64a-54b मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः ॥ 1-64a-55a अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते । 1-64a-55x वैशम्पायन उवाच । 1-64a-55b व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा ॥ 1-64a-56a मनुष्यभावात्सा योषित्पपात मुनिपादयोः । 1-64a-56b महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित् ॥ 1-64a-57a मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः । 1-64a-57b दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ ॥ 1-64a-58a धारणाद्दुःखसहनात्तयोर्माता गरीयसी । 1-64a-58b बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् ॥ 1-64a-59a जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे । 1-64a-59b मृगीणां पक्षिणां चैव अप्सराणां तथैव च ॥ 1-64a-60a शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः । 1-64a-60b ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा ॥ 1-64a-61a अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ । 1-64a-61b सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसम्भवौ ॥ 1-64a-62a स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा । 1-64a-62b एवमेव च देवानामृषीणां चैव सम्भवः ॥ 1-64a-63a लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा । 1-64a-63b वेदव्यास इति प्रोक्तः पुराणे च स्वयम्भुवा ॥ 1-64a-64a धर्मनेता महर्षीणां मनुष्याणां त्वमेव च । 1-64a-64b तस्मात्पुत्र न दूष्येत वासवी योगचारिणी ॥ 1-64a-65a मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि । 1-64a-65b प्रजाहितार्थं सम्भूतो विष्णोर्भागो महानृषिः ॥ 1-64a-66a तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन । 1-64a-66x वैशम्पायन उवाच । 1-64a-66b गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ 1-64a-67a चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् । 1-64a-67b पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि ॥ 1-64a-68a व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् । 1-64a-68b स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि ॥ 1-64a-69x वासव्युवाच । 1-64a-69a पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् । 1-64a-69b दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः ॥ 1-64a-70a महता तपसा तात महायोगबलेन च । 1-64a-70b मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः ॥ 1-64a-71a तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि साम्प्रतम् । 1-64a-71x वैशम्पायन उवाच । 1-64a-71b एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत् ॥ 1-64a-72a त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः । 1-64a-72b एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे ॥ 1-64a-73a स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् । 1-64a-73b स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥ 1-64a-74a ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति । 1-64a-74b पराशरोऽपि भगवान्पुत्रेण सहितो ययौ ॥ 1-64a-75a गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः । 1-64a-75b जातकर्मादिसंस्कारं कारयामास धर्मतः ॥ 1-64a-76a कृतोपनयनो व्यासो याज्ञवल्क्येन भारत । 1-64a-76b वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया ॥ 1-64a-77a गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे । 1-64a-77b एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ॥ 1-64a-78a द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत् । 1-64a-78b पादापसारिणं धर्मं विद्वान्स तु युगे युगे ॥ 1-64a-79a आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च । 1-64a-79b ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया ॥ 1-64a-80a विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः । 1-64a-80b ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः ॥ 1-64a-81a सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् । 1-64a-81b प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च ॥ 1-64a-82a वेदानध्यापयामास महाभारतपञ्चमान् । 1-64a-82b संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता ॥ 1-64a-83a ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् । 1-64a-83b तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ 1-64a-84a दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत् । 1-64a-84x दाशराज उवाच । 1-64a-84b त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता ॥ 1-64a-85a अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 1-64a-85x सत्यवत्युवाच । 1-64a-85b शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः ॥ 1-64a-86a नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम् । 1-64a-86b उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ ॥ 1-64a-87a ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन् । 1-64a-87b एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि ॥ 1-64a-88a दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च । 1-64a-88b एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम् । 1-64a-88c इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च ॥
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । 133a
वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥ 133c
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः । 134a
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ॥ 134c
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः । 135a
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ॥ 135c
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका । 136a
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ॥ 136c
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः । 137a
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ॥ 137c
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि । 138a
वैशम्पायन उवाच । 138
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ॥ 138c
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः । 139a
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ॥ 139c
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः । 140a
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः ॥ 140c
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः । 141a
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ 141c
अनादिनिधनो देवः स कर्ता जगतः प्रभुः । 142a
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम् ॥ 142c
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम् । 143a
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम् ॥ 143c
अनन्तमचलं देवं हंसं नारायणं प्रभुम् । 144a
धातारमजमव्यक्तं यमाहुः परमव्ययम् ॥ 144c
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् । 145a
पुरुषः स विभुः कर्ता सर्वभूतपितामहः ॥ 145c
धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु । 146a
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ ॥ 146c
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ । 147a
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ 147c
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत । 148a
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ 148c
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । 149a
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥ 149c
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः । 150a
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ॥ 150c
वैताने कर्मणि तते पावकात्समजायत । 151a
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान् ॥ 151c
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा । 152a
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥ 152c
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः । 153a
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥ 153c
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा । 154a
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ ॥ 154c
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । 155a
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ 155c
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः । 156a
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि ॥ 156c
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् । 157a
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ 157c
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः । 158a
इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ 158c
जज्ञाते रूपसम्पन्नावश्विभ्यां च यमावपि । 159a
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥ 159c
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । 160a
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥ 160c
ततो दुःशासनश्चैव दुःसहश्चापि भारत । 161a
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः ॥ 161c
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत । 162a
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः ॥ 162c
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत । 163a
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥ 163c
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे । 164a
कुमारा रूपसम्पन्नाः सर्वशास्त्रविशारदाः ॥ 164c
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । 165a
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ 165c
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् । 166a
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥ 166c
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता । 167a
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया ॥ 167c
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ । 168a
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥ 168c
तेषामपरिमेयानां नामधेयानि सर्वशः ।न शक्यानि समाख्यातुं वर्षाणामयुतैरपि । 169a
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ ॥ 169c
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
1-64-1 रञ्जकत्वाद्राजा । महीपतिः पृथ्वीपालकः ॥ 1-64-2 वसुः उपरिचरः ॥ 1-64-4 साक्षात्प्रत्यक्षभूय ॥ 1-64-5 न सङ्कीर्येत निर्नायकत्वात् ॥ 1-64-8 पशव्यः पशुभ्यो हितः ॥ 1-64-11 गाः बलीवर्दान् । वृषभान्कृशान्न धुरि युञ्जते प्रत्युत सन्धुक्षयन्ति पुष्टान्कुर्वन्ति । अन्ये तु गाः स्त्रीगवीः तासामप्यान्ध्रादिदुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः ॥ 1-64-12 न त इति । आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः ॥ 1-64-13 उपपत्स्यते उपस्थास्यते ॥ 1-64-15 वैजयन्तीं विजयहेतुं । अविक्षतमेव धारयिष्यति पालयिष्यति नतु विक्षतम् ॥ 1-64-16 लक्षणं चिह्नम् ॥ 1-64-17 इष्टप्रदानं प्रीतिदायमुद्दिश्य यष्टिं ददौ ॥ 1-64-20 शक्रस्य पूजार्थं तस्या यष्टेः प्रवेशं स्थापनम् ॥ 1-64-23 पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः ॥ 1-64-46 वासवाः वसुपुत्राः ॥ 1-64-48 पुरोपवाहिनीं पुरसमीपे वहन्तीं ॥ 1-64-50 नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते ॥ 1-64-54 तदहस्तस्मिन् दिने ॥ 1-64-63 वायुना कामोद्दीपकेन । धूम्रं मलिनं रतिकर्म तदर्थं । मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेन मनसाऽगात् । तया सह मानसं सुरतमकरोदित्यर्थः । प्रचस्कन्द पपात ॥ 1-64-64 मिथ्या प्रसवशून्यत्वेनालीकप्रायम् ॥ 1-64-68 अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा ॥ 1-64-70 आर्तवमृतुकालीनं स्नानम् ॥ 1-64-73 युध्यतोः सतोः ॥ 1-64-76 मासे दशमे प्राप्ते बबन्धुरिति सम्बन्धः । उज्जह्नुः उद्धृतवन्तः ॥ 1-64-77 काये देहे । मत्स्याः मत्स्ययोषायाः ॥ 1-64-115 नीहारं धूमिकाम् ॥ 1-64-119 स्थातुं जीवितुं नोत्सहे कन्यात्वदूषणादित्यर्थः ॥ 1-64-128 द्वीपमेवाऽयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः द्वीपायन एव द्वैपायन इति नाम निर्वक्ति न्यस्त इति ॥ 1-64-125 पादापसारिणं युगेयुगे पादशः 1-64-88 तमश्लोकपूर्वार्धात्परं 'इति सत्यवती हृष्टा' इत्यादि 'भारतस्य प्रकाशिताः' इत्यन्तसार्धश्लोकसप्तकस्थाने इमे कुण्डलिताः श्लोकाः केषुचित्कोशेषूपलभ्यन्ते । 1-64-133 वसुवीर्यात् वस्वंशात् ॥ 1-64-136 शकुन्तिका मक्षिका ॥ 1-64-140 कुन्तिभोजस्य कन्यायां कुन्त्याम् ॥ 1-64-167 स्थूणो नाम्ना ॥ चतुःषष्ठितमोऽध्यायः ॥ 64 ॥