अध्यायः 063
पूरुवंशकथनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् । 001a
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु ॥ 001c
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । 002a
तस्मान्मरीचिः सञ्जज्ञे दक्षश्चैव प्रजापतिः ॥ 002c
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् । 003a
मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः ॥ 003c
अदित्यां कश्यपाद्विवस्वान् । 004A
विवस्वतो मनुर्मनोरिला ॥ 004B
इलायाः पुरूरवाः । 005A
पुरूरवस आयुः । 005B
आयुषो नहुषः । 005C
नहुषस्य ययातिः ॥ 005D
ययातेर्द्वे भार्ये बभूवतुः । 006A
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥ 006B
तत्रानुवंशो भवति । 007A
यदुं च तुर्वसुं चैव देवयानी व्यजायत । 007B
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 007C
तत्र यदोर्यादवाः । 008A
पूरोः पौरवाः । 008B
पूरोर्भार्या कौसल्या बभूव । 008C
तस्यामस्य जज्ञे जनमेजयः ॥ 008D
स त्रीन्हयमेधानाजहार । 009A
विश्वजिता चेष्ट्वा वनं प्रविवेश ॥ 009B
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं । 010A
तस्यामस्य जज्ञे प्राचीन्वान् ॥ 010B
यः प्राचीं दिशं जिगाय । 011A
यावत्सूर्याोदयात् तत्तस्य प्राचीनत्वम् ॥ 011B
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम् । 012A
तस्यामस्य जज्ञे शय्यातिः ॥ 012B
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः ॥ 013A
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे । 014B
तस्यामस्य जज्ञे सार्वभौमः ॥ 014C
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे । 015A
तस्यामस्य जज्ञे जयत्सेनः ॥ 015B
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम । 016A
तस्यामस्य जज्ञेऽपराचीनः ॥ 016B
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम । 017A
तस्यामस्य जज्ञेऽरिहः ॥ 017B
अरिहः खल्वाङ्गीमुपेयेमे । 018A
तस्यामस्य जज्ञे महाभौमः ॥ 018B
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम । 019A
तस्यामस्य जज्ञे अयुतानायी ॥ 019B
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥ 020A
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । 021A
तस्यामस्य जज्ञेऽक्रोधनः ॥ 021B
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे । 022A
तस्यामस्य जज्ञे देवातिथिः ॥ 022B
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः ॥ 023A
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥ 024A
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे । 025A
तस्यामन्त्यनारमुत्पादयामास ॥ 025B
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार । 026A
तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास ॥ 026B
तस्यां पुत्रं जनयामास त्रस्नुं नाम । 027A
अत्रानुवंशो भवति ॥ 027B
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत् । 028A
इलिलं जनयामास कालिन्द्यान्त्रस्नुरात्मजम् ॥ 028B
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत् ॥ 029A
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥ 030A
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । 031A
तस्यामस्य जज्ञे भरतः ॥ 031B
तत्रेमौ श्लोकौ भवतः । 032A
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः । 032B
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥ 032C
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । 033a
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 033c
ततोऽस्य भरतत्वम् । 034A
भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम । 034B
तस्यामस्य जज्ञे भुमन्युः ॥ 034C
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम । 035A
तस्यामस्य जज्ञे सुहोत्रः ॥ 035B
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम । 036A
तस्यामस्य जज्ञे हस्ती । 036B
य इदं पुरं निर्मापयामास ॥ 036C
तस्माद्धास्तिनपुरत्वम् । 037A
हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जनः ॥ 037B
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम । 038A
तस्यामस्य जज्ञेऽजमीढः ॥ 038B
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव । 039A
कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ॥ 039B
पृथग्वंशकर्तारो नृपतयः । 040A
तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः ॥ 040B
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे । 041A
तस्यामस्य जज्ञे कुरुः ॥ 041B
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । 042A
तस्यामस्य जज्ञे विदूरथः ॥ 042B
विदूरथस्तु खलु मागधीमुपयेमे सम्प्रियां नाम । 043A
तस्यामस्य जज्ञेऽनश्वान् ॥ 043B
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम । 044A
तस्यामस्य जज्ञे परिक्षित् ॥ 044B
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम । 045A
तस्यामस्य जज्ञे भीमसेनः ॥ 045B
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम । 046A
तस्यामस्य जज्ञे परिश्रवाः ॥ 046B
यमाहुः प्रतीप इति ।प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम । 047A
तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥ 047B
देवापिस्तु खलु बाल एवारण्यं प्रविवेश । 048A
शन्तनुस्तु महीपालोऽभवत् ॥ 048B
तत्र श्लोको भवति ।यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । 049A
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥ 049B
तदस्य शन्तनुत्वं । 050A
शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः । 050B
यमाहुर्भीष्म इति ॥ 050C
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं । 051A
यामाहुः कालीति ॥ 051B
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः । 052A
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥ 052B
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः । 053A
ततो विचित्रवीर्यो राजा बभूव ॥ 053B
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत् । 054A
विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥ 054B
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥ 055A
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति । 056A
तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति ॥ 056B
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥ 057A
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥ 058A
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः । 059A
स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान ॥ 059B
स बाणविद्ध उवाच पाण्डुम् । 060A
अत्र श्लोको भवति ॥ 060B
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम् । 061A
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥ 061B
इति मृगव्रतचारिणा ऋषिणा शप्तः । 062A
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥ 062B
कदाचित्स आह ।स्वचापल्यादिदं प्राप्तवानहम् । 063A
पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति ॥ 063B
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥ 064A
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति । 065A
स हृष्टरूपः पाण्डुरुवाच । 065B
इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥ 065C
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश । 066A
ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥ 066B
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । 067A
स तां प्राप्यैव विदेहत्वं प्राप्तः ॥ 067B
ततस्तेन सह चितामन्वारुरोह माद्री । 068A
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥ 068B
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥ 069A
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥ 070A
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥ 071A
तांश्च विदुरो मोक्षयामास । 072A
ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम ॥ 072B
ततश्चैकचक्रां जग्मुः कुशलिनः । 073A
ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम् ॥ 073B
प्रतिविन्ध्यां युधिष्ठिरः । 074A
सुतसोमं वृकोदरः । 074B
श्रुतकीर्तिमर्जुनः । 074C
शतानीकं नकुलः । 074D
श्रुतसेनं सहदेव इति ॥ 074E
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः । 075A
तस्यां पुत्रं जनयामास यौधेयं नाम ॥ 075B
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां । 076A
तस्यामस्य जज्ञे शर्वत्रातः ॥ 076B
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां । 077A
तस्यामभिमन्युं नाम पुत्रं जनयामास ॥ 077B
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत् । 078A
तस्यां पुत्रं जनयामास निरमित्रं नाम ॥ 078B
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् । 079A
तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥ 079B
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम । 080A
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥ 080B
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम । 081A
एते त्रयोदश पुत्राः पाण्डवानाम् ॥ 081B
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे । 082A
तस्यामस्य परासुर्गर्भोऽजायत ॥ 082B
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य । 083A
षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥ 083B
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत । 084A
अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत । 084B
नाम तस्याकरोत्सुभद्रा ॥ 084C
परिक्षीणे कुले जात उत्तरायां परन्तपः । 085A
परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः ॥ 085B
परीक्षित्तु खलु भद्रवतीं नामोपयेमे । 086A
तस्यां तत्र भवाञ्जनमेजयः ॥ 086B
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च ॥ 087A
शतानीकस्तु खलु वैदेहीमुपयेमे । 088A
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥ 088B
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । 089A
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ ॥ 089B
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥
1-63-32 भस्त्रा चर्मकोशः तत्र निहितं बीजं यथा तदीयं न भवति एवं मातापि भस्त्रेव । येन हेतुना यो जातः स एव सः । कार्यस्य कारणानन्यत्वात् ॥ 1-63-33 पुत्रः रेतोधाः रेतोधातारं पितरं उन्नयति ऊर्ध्वं नयति । यमक्षयात् नरकात् ॥