अध्यायः 062

भारतप्रशंसा ॥ 1 ॥ तच्छ्रवणादिफलकथनम् ॥ 2 ॥ जनमेजय उवाच । 001
कथितं वै समासेन त्वया सर्वं द्विजोत्तम । 001a
महाभारतमाख्यानं कुरूणां चरितं महत् ॥ 001c
कथां त्वनघ चित्रार्थां कथयस्व तपोधन । 002a
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ 002c
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । 003a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 003c
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः । 004a
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ 004c
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । 005a
प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ 005c
कथं नागायुतप्राणो बाहुशाली वृकोदरः । 006a
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ 006c
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । 007a
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा ॥ 007c
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा । 008a
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः ॥ 008c
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । 009a
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ 009c
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । 010a
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥ 010c
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । 011a
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः ॥ 011c
वैशम्पायन उवाच । 012
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः । 012a
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः ॥ 012c
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । 013a
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ 013c
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । 014a
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ 014c
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् । 015a
सङ्क्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥ 015c
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च । 016a
श्लोकानां तु सहस्राणि नवतिश्च दशैव च । 016c
ततोऽष्टादशभिः पर्वैः सङ्गृहीतं महर्षिणा' ॥ 016e
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः । 017a
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ 017c
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । 018a
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥ 018c
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते । 019a
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ 019c
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । 020a
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते ॥ 020c
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । 021a
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ 021c
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा । 022a
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ॥ 022c
महीं विजयते राजा शत्रूंश्चापि पराजयेत् । 023a
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् ॥ 023c
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा । 024a
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥ 024c
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् । 025a
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ 025c
'धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । 026a
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् । 026c
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह' ॥ 026e
सम्प्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे । 027a
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ 027c
भरतानां महज्जन्म शृण्वतामनसूयताम् । 028a
नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ 028c
शरीरेण कृतं पापं वाचा च मनसैव च । 029a
सर्वं सन्त्यजति क्षिप्रं य इदं शृणुयान्नरः ॥ 029c
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च । 030a
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ 030c
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । 031a
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ 031c
सर्वविद्यावदातानां लोके प्रथितकर्मणाम् । 032a
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् ॥ 032c
श्रावयेत महापुण्यं तस्य धर्मः सनातनः । 033a
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः ॥ 033c
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् । 034a
योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः ॥ 034c
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते । 035a
विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥ 035c
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा । 036a
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा ॥ 036c
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते । 037a
अनेकजननो यत्र कार्तिकेयस्य सम्भवः ॥ 037c
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते । 038a
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः ॥ 038c
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । 039a
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम् ॥ 039c
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः । 040a
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह ॥ 040c
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा । 041a
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् ॥ 041c
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते । 042a
भरतानां महज्जन्म महाभारतमुच्यते ॥ 042c
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । 043a
भरतानां यतश्चायमितिहासो महाद्भुतः ॥ 043c
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः । 044a
त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् ॥ 044c
नित्योत्थितः शुचिः शक्तो महाभारतमादितः । 045a
तपोनियममास्थाय कृतमेतन्महर्षिणा ॥ 045c
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् । 046a
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥ 046c
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः । 047a
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः ॥ 047c
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि । 048a
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् ॥ 048c
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः । 049a
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते ॥ 049c
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् । 050a
नरः फलमवाप्नोति राजसूयाश्वमेधयोः ॥ 050c
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः । 051a
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते ॥ 051c
इदं हि वेदैः समितं पवित्रमषि चोत्तमम् । 052a
श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् ॥ 052c
य इदं भारतं राजन्वाचकाय प्रयच्छति । 053a
तेन सर्वा मही दत्ता भवेत्सागरमेखला ॥ 053c
पारिक्षित कथां दिव्यां पुण्याय विजयाय च । 054a
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् ॥ 054c
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । 055a
महाभारतमाख्यानं कृतवानिदमद्भुतम् ॥ 055c
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम् ॥ ॥ 056ac

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥

1-62-4 अवध्यान् भीष्मद्रोणादीन् ॥ 1-62-6 क्रोधं धृतवान् निरुद्धवान् ॥ 1-62-10 अस्यन् शरान् क्षिपन् स कथं क्लेशं सोढवानित्यनुषज्ज्यते ॥ 1-62-18 ऋषिभिर्मन्त्रैस्तद्द्रष्टृभिर्वा संस्तुतं समं स्तुतं वा ॥ 1-62-19 परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता ॥ 1-62-20 अनास्तिकान् नास्तिका न भवन्तीत्यनास्तिकास्तान् ॥ 1-62-23 पुंसवनं पुमांसः सूयन्तेऽस्मिन् श्रुते ॥ 1-62-24 महिषी पट्टराज्ञी ॥ 1-62-47 सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्ते न शोच्याः । एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः ॥ 1-62-49 स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः ॥ 1-62-50 श्राद्धः श्रद्धावान् ॥ 1-62-52 श्राव्यमर्थतो रम्यम् ॥ 1-62-55 सदोत्थायी सदोद्युक्तः ॥ द्विषष्टितमोऽध्यायः ॥ 62 ॥