अध्यायः 060
भारतकथानुबन्धः ॥ 1 ॥
सौतिरुवाच । 001
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् । 001a
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ 001c
जनयामास यं काली शक्तेः पुत्रात्पराशरात् । 002a
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ 002c
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् । 003a
वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः ॥ 003c
यं नाति तपसा कश्चिन्न वेदाध्ययनेन च । 004a
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ 004c
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः । 005a
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ 005c
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् । 006a
शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ 006c
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा । 007a
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः ॥ 007c
तत्र राजानमासीनं ददर्श जनमेजयम् । 008a
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् ॥ 008c
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः । 009a
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥ 009c
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् । 010a
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ 010c
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः । 011a
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ 011c
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् । 012a
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ 012c
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः । 013a
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ 013c
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात् । 014a
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ 014c
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम् । 015a
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥ 015c
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च । 016a
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत् ॥ 016c
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः । 017a
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥ 017c
जनमेजय उवाच । 018
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् । 018a
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ 018c
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् । 019a
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ 019c
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । 020a
कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम । 020c
इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि' ॥ 020e
सौतिरुवाच । 021
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । 021a
शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ 021c
व्यास उवाच । 022
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा । 022a
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ 022c
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । 023a
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ 023c
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः । 024a
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा ॥ ॥ 024c
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
1-60-2 काली सत्यवती ॥ 1-60-3 इष्ट्या इच्छया देहं सद्योऽवीवृधत् वर्धितवान् ॥ 1-60-4 यं व्यासम् । तपआदिना कश्चिन्नाति नात्येति नातिशेते ॥ 1-60-15 उपोपविश्य समीपे उपविश्य ॥ 1-60-16 प्रतिवेद्य प्रतिख्याप्य । अत्र पूजा स्तुतिरेव ॥ 1-60-17 इदं वक्ष्यमाणम् ॥ 1-60-18 प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी ॥ 1-60-19 भेदो वैरम् ॥ 1-60-20 पितामहानां प्रपितामहानाम् ॥ षष्टितमोऽध्यायः ॥ 60 ॥