अध्यायः 059

(अध्यायः 059

(अथांशावतरणपर्व ॥ 6 ॥)

सौतेर्भारतकथनप्रतिज्ञा ॥ 1 ॥ शौनक उवाच । 001
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत् । 001a
आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते ॥ 001c
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन । 002a
याः कथा व्याससम्पन्नास्ताश्च भूयो विचक्ष्व मे ॥ 002c
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम् । 003a
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे ॥ 003c
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् । 004a
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः ॥ 004c
सौतिरुवाच । 005
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः । 006a
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत् ॥ 006c
शौनक उवाच । 007
महाभारतमाख्यानं पाण्डवानां यशस्करम् । 007a
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा ॥ 007c
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः । 008a
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ 008c
मनःसागरसम्भूतां महर्षेर्भावितात्मनः । 009a
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम् ॥ 009c
सौतिरुवाच । 010
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । 010a
कृष्णद्वैपायनमतं महाभारतमादितः ॥ 010c
शृणु सर्वमशेषेण कथ्यमानं मया द्विज । 011a
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते ॥ ॥ 011c

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥