अध्यायः 057

सर्पसत्रे हतानां नागानां नामकथनम् ॥ 1 । शौनक उवाच । 001
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने । 001a
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥ 001c
सौतिरुवाच । 002
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च । 002a
न शक्यं परिसङ्ख्यातुं बहुत्वाद्द्विजसत्तम ॥ 002c
यथास्मृति तु नामानि पन्नगानां निबोध मे । 003a
उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥ 003c
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे । 004a
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥ 004c
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् । 005a
कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥ 005c
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः । 006a
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः ॥ 006c
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने । 007a
अन्ये च बहवो विप्र तथा वै कुलसम्भवाः । 007c
प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः ॥ 007e
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् । 008a
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः ॥ 008c
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः । 009a
शिली शलकरो मूकः सुकुमारः प्रवेपनः ॥ 009c
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः । 010a
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥ 010c
पारावतः पारियात्रः पाण्डरो हरिणः कृशः । 011a
विहङ्गः शरभो मोदः प्रमोदः संहतापनः ॥ 011c
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् । 012a
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम ॥ 012c
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः । 013a
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ ॥ 013c
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् । 014a
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् ॥ 014c
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् । 015a
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ ॥ 015c
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः । 016a
अमाहठः कामठकः सुषेणो मानसोऽव्ययः ॥ 016c
अष्टावक्रः कोमलकः श्वसनो मौनवेपगः । 017a
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः । 017c
ऋषभो वेगवान्नागः पिण्डारकमहाहनू ॥ 017e
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ । 018a
वराहको वीरणकः सुचित्रश्चित्रवेगिकः ॥ 018c
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः । 019a
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ॥ 019c
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः । 020a
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः ॥ 020c
न शक्यं परिसङ्ख्यातुं ये दीप्तं पावकं गताः ।' 021a
द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे । 021c
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः' ॥ 021e
कालानलविषा घोरा हुताः शतसहस्रशः । 022a
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः ॥ 022c
योजनायामविस्तारा द्वियोजनसमायताः । 023a
कामरूपाः कामबला दीप्तानलविषोल्बणाः ॥ 023c
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः ॥ ॥ 024ac

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥