अध्यायः 056
प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः ॥ 1 ॥ ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम् ॥ 2 ॥ भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम् ॥ 3 ॥ आस्तीकस्य यज्ञसमाप्तिवरयाचनम् ॥ 4 ॥
जनमेजय उवाच । 001
बालोऽप्ययं स्थविर इवावभाषतेनायं बालः स्थविरोऽयं मतो मे । 001a
इच्छाम्यहं वरमस्मै प्रदातुन्तन्मे विप्राः संविदध्वं यथावत् ॥ 001c
सदस्या ऊचुः । 002
बालोऽपि विप्रो मान्य एवेह राज्ञा'यश्चाविद्वान्यश्च विद्वान्यथावत् । 002a
प्रसादयैनं त्वरितो नरेन्द्रद्विजातिवर्यं सकलार्थसिद्धये ।' 002c
सर्वान्कामांस्त्वत्त एवार्हतेऽद्ययथा च नस्तक्षक एति शीघ्रम् ॥ 002e
सौतिरुवाच । 003
व्याहर्तुकामे वरदे नृपे द्विजंवरं वृणीष्वेति ततोऽब्युवाच । 003a
होता वाक्यं नातिहृष्टान्तरात्माकर्मण्यस्मिंस्तक्षको नैति तावत् ॥ 003c
जनमेजय उवाच । 004
यथा चेदं कर्म समाप्यते मेयथा च वै तक्षक एति शीघ्रम् । 004a
तथा भवन्तः प्रयतन्तु सर्वेपरं शक्त्या स हि मे विद्विषाणः ॥ 004c
ऋत्विज ऊचुः । 005
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः । 005a
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥ 005c
यथा सूतो लोहिताक्षो महात्मापौराणिको वेदितवान्पुरस्तात् । 006a
स राजानं प्राह पृष्टस्तदानींयथाहुर्विप्रास्तद्वदेतन्नृदेव ॥ 006c
पुराणमागम्य ततो ब्रवीम्यहन्दत्तं तस्मै वरमिन्द्रेण राजन् । 007a
वसेह त्वं मत्सकाशे सुगुप्तोन पावकस्त्वां प्रदहिष्यतीति ॥ 007c
एतच्छ्रुत्वा दीक्षितस्तप्यमानआस्ते होतारं चोदयन्कर्म काले । 008a
इन्द्रेण सार्धं तक्षकं पातयध्वंविभावसौ न विमुच्येत नागः । 008c
होता च यत्तोऽस्याजुहावाथ मन्त्रै-रथो महेन्द्रः स्वयमाजगाम ॥ 008e
आयातु चेन्द्रोऽपि सतक्षकः पते-द्विभावसौ नागराजेन तूर्णम् । 009a
जम्भस्य हन्तेति जुहाव होतातदा जगामाहिदत्ताभयः प्रभुः ॥' 009c
विमानमारुह्य महानुभावःसर्वैर्देवैः परिसंस्तूयमानः । 010a
बलाहकैश्चाप्यनुगम्यमानोविद्याधरैरप्सरसां गणैश्च'नागस्य नाशो मम चैव नाशोभविष्यतीत्येव विचिन्तयानः ॥' 010c
तस्योत्तरीये निहितः स नागोभयोद्विग्नः शर्म नैवाभ्यगच्छत् । 011a
ततो राजा मन्त्रविदोऽब्रवीत्पुनःक्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥ 011c
जनमेजय उवाच । 012
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः । 012a
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ ॥ 012c
सौतिरुवाच । 013
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति । 013a
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥ 013c
हूयमाने तथा चैव तक्षकः सपुरन्दरः । 014a
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥ 014c
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् । 015a
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ ॥ 015c
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः । 016a
मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः । 016c
तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्' ॥ 016e
ऋत्विज ऊचुः । 017
अयमायाति तूर्णं स तक्षकस्ते वशं नृप । 017a
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम् ॥ 017c
नूनं मुक्तो वज्रभृता स नागोभ्रष्टो नाकान्मन्त्रवित्रस्तकायः । 018a
घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैतितीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः ॥ 018c
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो । 019a
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥ 019c
जनमेजय उवाच । 020
बालाभिरूपस्य तवाप्रमेयवरं प्रयच्छामि यथानुरूपम् । 020a
वृणीष्व यत्तेऽभिमतं हृदि स्थितन्तत्ते प्रदास्याम्यपि चेददेयम् ॥ 020c
सौतिरुवाच । 021
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि । 021a
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥ 021c
आस्तीक उवाच । 022
वरं ददासि चेन्मह्यं वृणोमि जनमेजय । 022a
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥ 022c
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः । 023a
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत् ॥ 023c
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो । 024a
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥ 024c
आस्तीक उवाच । 025
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् । 025a
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥ 025c
सौतिरुवाच । 026
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा । 026a
पुनःपुनरुवाचेदमास्तीकं वदतां वरः ॥ 026c
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम । 027a
अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥ 027c
ततो वेदविदस्तात सदस्याः सर्व एव तम् । 028a
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ ॥ 028c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥
1-56-1 संविदध्वमैकमत्यं कुरुध्वम् । संवदध्वमित्यपि पाठः ॥ 1-56-4 विद्विषाणः विद्वेषं कृतवान् । लिटः कान्च । अभ्यासलोप आर्षः ॥ 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः ॥ 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम् । आगम्य ज्ञात्वा ॥ 1-56-15 भयं आविशत् प्राप्तवान् ॥ 1-56-20 हे बाल ॥ षट्पञ्चाशत्तमोऽध्यायः ॥ 56 ॥