अध्यायः 055 आस्तीककृता जनमेजययज्ञप्रशंसा ॥ 1 ॥

आस्तीक उवाच । 001
सोमस्य यज्ञो वरुणस्य यज्ञःप्रजापतेर्यज्ञ आसीत्प्रयागे । 001a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 001c
शक्रस्य यज्ञः शतसङ्ख्य उक्त-स्तथापरं तुल्यसङ्ख्यं शतं वै । 002a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 002c
यमस्य यज्ञो हरिमेधसश्चयथा यज्ञो रन्तिदेवस्य राज्ञः । 003a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 003c
गयस्य यज्ञः शशबिन्दोश्च राज्ञोयज्ञस्तथा वैश्रवणस्य राज्ञः । 004a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 004c
नृगस्य यज्ञस्त्वजमीढस्य चासी-द्यथा यज्ञो दाशरथेश्च राज्ञः । 005a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 005c
यज्ञः श्रुतो दिवि देवस्य सूनो-र्युधिष्ठिरस्याजमीढस्य राज्ञः । 006a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 006c
कृष्णस्य यज्ञः सत्यवत्याः सुतस्यस्वयं च कर्म प्रचकार यत्र । 007a
तथा यज्ञोऽयं तव भारताग्र्यपारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ 007c
इमे च ते सूर्यसमानवर्चसःसमासते वृत्रहणः क्रतुं यथा । 008a
नैषां ज्ञातुं विद्यते ज्ञानमद्यदत्तं येभ्यो न प्रणश्येत्कदाचित् ॥ 008c
ऋत्विक्समो नास्ति लोकेषु चैवद्वैपायनेनेति विनिश्चितं मे । 009a
एतस्य शिष्या हि क्षितिं सञ्चरन्तिसर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥ 009c
विभावसुश्चित्रभानुर्महात्माहिरण्यरेता हुतभुक्कृष्णवर्त्मा । 010a
प्रदक्षिणावर्तशिखः प्रदीप्तोहव्यं तवेदं हुतभुग्वष्टि देवः ॥ 010c
नैह त्वदन्यो विद्यते जीवलोकेसमो नृपः पालयिता प्रजानाम् । 011a
धृत्या च ते प्रतीमनाः सदाहन्त्वं वा वरुणो धर्मराजो यमो वा ॥ 011c
शक्रः साक्षाद्वज्रपाणिर्यथेहत्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् । 012a
मतस्त्वं नः पुरुषेन्द्रेह लोकेन च त्वदन्यो भूपतिरस्ति जज्ञे ॥ 012c
खट्वाङ्गनाभगदिलीपकल्पययातिमान्धातृसमप्रभाव । 013a
आदित्यतेजःप्रतिमानतेजाभीष्मो यथा राजसि सुव्रतस्त्वम् ॥ 013c
वाल्मीकिवत्ते निभृतं स्ववीर्यंवसिष्ठवत्ते नियतश्च कोपः । 014a
प्रभुत्वमिन्द्रत्वसमं मतं मेद्युतिश्च नारायणवद्विभाति ॥ 014c
यमो यथा धर्मविनिश्चयज्ञःकृष्णो यथा सर्वगुणोपपन्नः । 015a
श्रियां निवासोऽसि यथा वसूनान्निधानभूतोऽसि तथा क्रतूनाम् ॥ 015c
दम्भोद्भवेनासि समो बलेनरामो यथा शस्त्रविदस्त्रविच्च । 016a
और्वत्रिताभ्यामसि तुल्यतेजादुष्प्रेक्षणीयोऽसि भगीरथेन ॥ 016c
सौतिरुवाच । 017
एवं स्तुताः सर्व एव प्रसन्नाराजा सदस्या ऋत्विजो हव्यवाहः । 017a
तेषां दृष्ट्वा भावितानीङ्गितानिप्रोवाच राजा जनमेजयोऽथ ॥ ॥ 017c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥ 1-55-6 देवस्य धर्मराजस्य ॥ 1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य सम्प्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः ॥ 1-55-10 अग्निं स्तौति विभावसुरिति । वष्टि कामयते ॥ 1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि ॥ 1-55-14 निभृतं गुप्तं । नियतो निगृहीतः ॥ 1-55-15 वसवोऽष्टौ तत्सम्बन्धिनीनां श्रियाम् ॥ 1-55-16 रामो भार्गवः और्वत्रितावृषी ॥ 1-55-17 भावितानि मनसि सङ्कल्पितानि । भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात् ॥ पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥