अध्यायः 053 ऋत्विगादिनामकथनम् ॥ 1 ॥ इन्द्रकृतं तक्षकाश्वासनम् ॥ 2 ॥ वासुकेः स्वभगिन्या संवादः ॥ 3 ॥

शौनक उवाच । 001
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः । 001a
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥ 001a
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे । 002a
विषादजननेऽत्यर्थं पन्नगानां महाभय ॥ 002c
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति । 003a
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज ॥ 003c
सौतिरुवाच । 004
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् । 004a
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥ 004c
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः । 005a
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः ॥ 005c
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः । 006a
ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः ॥ 006c
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् । 007a
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥ 007c
असितो देवलश्चैव नारदः पर्वतस्तथा । 008a
आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा ॥ 008c
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान् । 009a
कोहलो देवशर्मा च मौद्गल्यः समसौरभः ॥ 009c
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः । 010a
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह ॥ 010c
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ । 011a
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥ 011c
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः । 012a
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥ 012c
पततां चैव नागानां धिष्ठितानां तथाम्बरे । 013a
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥ 013c
तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम् । 014a
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥ 014c
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः । 015a
अगच्छच्छरणं भीत आगस्कृत्वा पुरन्दरम् ॥ 015c
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक । 016a
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन ॥ 016c
प्रसादितो मया पूर्वं तवार्थाय पितामहः । 017a
तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः ॥ 018a
सौतिरुवाच । 019
एवमाश्वासितस्तेन ततः स भुजगोत्तमः । 019a
उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी ॥ 019c
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः । 020a
अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥ 020c
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम् । 021a
स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥ 021c
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम् । 022a
सीदामीव च सम्मोहाद्धूर्णतीव च मे मनः ॥ 022c
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च । 023a
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥ 023c
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया । 024a
व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम् ॥ 024c
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः । 025a
जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान् ॥ 025c
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे । 026a
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥ 026c
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसम्मतम् । 027a
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥ ॥ 027c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥ 1-53-2 सदस्या उपद्रष्टारः ॥ 1-53-3 विधानज्ञेषु विज्ञेयाः श्रेष्ठाः ॥ 1-53-13 पच्यतां पच्यमानानाम् ॥ 1-53-15 आगः अपरान्ध कृत्वा ॥ त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥