अध्यायः 052 अग्नौ सर्पपतनम् ॥ 1 ॥
सौतिरुवाच । 001
ततः कर्म प्रववृते सर्पसत्रविधानतः । 001a
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः ॥ 001c
प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः । 002a
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥ 002c
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च । 003a
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥ 003c
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । 004a
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम् ॥ 004c
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम् । 005a
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥ 005c
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा । 006a
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ ॥ 006c
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः । 007a
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर ॥ 007c
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च । 008a
अवशानि विनष्टानि पन्नगानां तु तत्र वै ॥ 008c
तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे । 009a
मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ 009c
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । 010a
घोराश्च परिघप्रख्या दन्दशूका महाबलाः । 010c
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ ॥ 010e
इति श्रीमन्माहाभारते आदिपर्वणि आस्तीकपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥
1-52-1 पर्यक्रामन् पराक्रान्तवन्तः ॥ 1-52-2 मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा ॥ 1-52-3 आजुहुवुः आहूतवन्तः ॥ 1-52-5 चित्रभानुमग्निम् ॥ 1-52-7 प्रमाणतः प्रमाणं प्राप्य ॥ द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥