अध्यायः 051 जनमेजयस्य सर्पसत्रप्रतिज्ञा ॥ 1 ॥ यज्ञसामग्रीसम्पादनम् ॥ 2 ॥ दीक्षाग्रहणम् ॥ 3 ॥

सौतिरुवाच । 001
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः । 001a
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥ 001c
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा । 002a
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः ॥ 002c
अब्रवीद्वाक्यसम्पन्नः कार्यसम्पत्करं वचः । 003a
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ॥ 003c
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे । 004a
अपि तत्कर्म विदितं भवतां येन पन्नगम् ॥ 004c
तक्षकं सम्प्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् । 005a
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ॥ 005c
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥ 006ac
ऋत्विज ऊचुः । 007
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम् । 007a
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते ॥ 007c
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप । 008a
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥ 008c
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् । 009a
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम ॥ 009c
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा । 010a
आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥ 010c
सौतिरुवाच । 011
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम । 011a
तं देशं मापयामासुर्यज्ञायतनकारणात् ॥ 011c
यथावद्वेदविद्वांसः सर्वे बुद्धेः परङ्गताः । 012a
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम् ॥ 012c
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् । 013a
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ॥ 013c
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा । 014a
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ॥ 014c
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा । 015a
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ॥ 015c
स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः । 016a
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ॥ 016c
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता । 017a
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥ 017c
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् । 018a
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति ॥ ॥ 018c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥ 1-51-5 मह्यं मम ॥ 1-51-7 त्वत् त्वत्तो नान्योस्ति ॥ 1-51-9 आहरिष्यामि करिष्यामि । सम्भ्रियन्तु सम्भ्रियन्ताम् ॥ 1-51-13 भविष्यति भाविनि ॥ 1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता ॥ 1-51-16 नायं संस्थास्यते न समाप्स्यते ॥ 1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम् ॥ एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥