अध्यायः 050 शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम् ॥ 1 ॥

मन्त्रिण ऊचुः । 001
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् । 001a
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः ॥ 001c
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः । 002a
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥ 002c
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह । 003a
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा ॥ 003c
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा । 004a
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम् ॥ 004c
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम् । 005a
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ॥ 005c
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम् । 006a
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा ॥ 006c
शुभाचारं शुभकथं सुस्थितं तमलोलुपम् । 007a
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् । 007c
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव ॥ 007e
शशापाथ महातेजाः पितरं ते रुषान्वितः । 008a
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः ॥ 008c
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह । 009a
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥ 009c
अनागसि गुरौ यो मे मृतं सर्पवासृजत् । 010a
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति ॥ 010c
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः । 011a
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥ 011c
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत् । 012a
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत् ॥ 012c
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः । 013a
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् ॥ 013c
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः । 014a
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥ 014c
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति । 015a
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय ॥ 015c
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् । 016a
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ॥ 016c
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत । 017a
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा ॥ 017c
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम् । 018a
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ 018c
काश्यप उवाच । 019
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज । 019a
तक्षकेण भुजङ्गेन धक्ष्यते किल सोऽद्य वै ॥ 019c
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् । 020a
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ 020c
तक्षक उवाच । 021
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि । 021a
अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम् ॥ 021c
न शक्तस्त्वं मया दष्टं तं सञ्जीवयितुं नृपम् । 022a
मन्त्रिण ऊचुः । 022
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम् ॥ 022c
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः । 023a
काश्यपश्च ततो राजन्नजीवयत तं नगम् ॥ 023c
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः । 024a
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः ॥ 024c
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः । 025a
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा ॥ 025c
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम् । 026a
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ ॥ 026c
स एवमुक्तो नागेन काश्यपो द्विपदां वरः । 027a
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥ 027c
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । 028a
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव ॥ 028c
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना । 029a
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ 029c
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम । 030a
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम् ॥ 030c
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम् । 031a
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम् ॥ 031c
सौतिरुवाच । 032
एतस्मिन्नेव काले तु स राजा जनमेजयः । 032a
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिन्दमः ॥ 032c
जनमेजय उवाच । 033
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ । 033a
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा ॥ 033c
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै । 034a
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात् ॥ 034c
चिन्तयामास पापात्मा मनसा पन्नगाधमः । 035a
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति ॥ 035c
तक्षकः संहतविषो लोके यास्यति हास्यताम् । 036a
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै ॥ 036c
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् । 037a
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने ॥ 037c
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा । 038a
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम् । 038c
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम् ॥ 038e
मन्त्रिण ऊचुः । 039
शृणु राजन्यथास्माकं येन तत्कथितं पुरा । 039a
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ 039c
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । 040a
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ ॥ 040c
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ । 041a
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप ॥ 041c
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः । 042a
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम् ॥ 042c
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च । 043a
एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत् । 043c
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम् ॥ 043e
सौतिरुवाच । 044
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । 044a
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे ॥ 044c
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः । 045a
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः ॥ 045c
उवाच च महीपालो दुःखशोकसमन्वितः । 046a
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि ॥ 046c
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः । 047a
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत् ॥ 047c
जनमेजय उवाच । 048
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । 048a
निश्चितेयं मम मतिर्या च तां मे निबोधत । 048c
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने ॥ 048e
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता । 049a
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम् ॥ 049c
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् । 050a
यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम ॥ 050c
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । 051a
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च ॥ 051c
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । 052a
सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥ 052c
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । 053a
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥ 053c
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम् । 054a
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः ॥ ॥ 054c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः ॥ 50 ॥ 1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः ॥ 1-50-7 अक्षुद्रं गम्भीरं । तव पित्रा विनिकृतमपकृतम् ॥ 1-50-20 अभिपन्नं त्रातं धऱ्षयिष्यत्यमिभविष्यति ॥ 1-50-24 कामं काम्यमानमर्थम् ॥ 1-50-27 द्विपदा पुस्त्राणाम् ॥ 1-50-36 संहतविषः सम्या हतं नष्टं विषं यस्य स तथा संहृतविष इति पाठे स्पष्टोथः ॥ 1-50-39 समागणं समागमं भावे निष्ठा ॥ 1-50-44 करं कर निधाय प्रत्यपिंषत् ॥ 1-50-52 मोहान्मदीयसमर्थ्याज्ञानात् ॥ 1-50-54 अपचितिं वैरनिर्यातनम् ॥ पञ्चाशत्तमोऽध्यायः ॥ 50 ॥