अध्यायः 049 जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम् ॥ 1 ॥
शौनक उवाच । 001
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः । 001a
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥ 001c
सौतिरुवाच । 002
शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा । 002a
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः ॥ 002c
जनमेजय उवाच । 003
जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम । 003a
आसीद्यथा स निधनं गतः काले महायशाः ॥ 003c
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः । 004a
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् ॥ 004c
सौतिरुवाच । 005
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना । 005a
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम् ॥ 005c
मन्त्रिण ऊचुः । 006
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः । 006a
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः ॥ 006c
धर्मात्मा च महात्मा च प्रजापालः पिता तव । 007a
आसीदिहयथा वृत्तः स महात्मा शृणुष्व तत् ॥ 007c
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत । 008a
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥ 008c
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः । 009a
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कञ्चन ॥ 009c
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् । 010a
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ॥ 010c
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः । 011a
विधवानाथविकलान्कृपणांश्च बभार सः ॥ 011c
सुदर्शः सर्वभूतानामासीत्सोम इवापरः । 012a
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ॥ 012c
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः । 013a
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ॥ 013c
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः । 014a
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत् ॥ 014c
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली । 015a
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः ॥ 015c
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता । 016a
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः ॥ 016c
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत् । 017a
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन् ॥ 017c
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । 018a
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम् । 018c
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः ॥ 018e
जनमेजय उवाच । 019
नास्मिन्कुले जातु बभूव राजायो न प्रजानां प्रियकृत्प्रियश्च । 019a
विशेषतः प्रेक्ष्य पितामहानांवृत्तं महद्वृत्तपरायणानाम् ॥ 019c
कथं निधनमापन्नः पिता मम तथाविधः । 020a
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥ 020c
सौतिरुवाच । 021
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् । 021a
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः ॥ 021c
मन्त्रिण ऊचुः । 022
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः । 022a
बभूव मृगयाशीलस्तव राजन्पिता सदा ॥ 022c
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि । 023a
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥ 023c
स कदाचिद्वनगतो मृगं विव्याध पत्रिणा । 024a
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥ 024c
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् । 025a
न चाससाद गहने मृगं नष्टं पिता तव ॥ 025c
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः । 026a
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥ 026c
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम् । 027a
न च किञ्चिदुवाचेदं पृष्टोऽपि समुनिस्तदा ॥ 027c
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् । 028a
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः ॥ 028c
न बुबोध च तं राजा मौनव्रतधरं मुनिम् । 029a
स तं क्रोधसमाविष्टो धर्षयामास ते पिता ॥ 029c
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् । 030a
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥ 030c
न चोवाच स मेधावी तमथो साध्वसाधु वा । 031a
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन् ॥ ॥ 031c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥
1-49-4 कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं करिष्यामि ॥ 1-49-6 ब्रूषे पृच्छसि । निष्ठां समाप्तिम् ॥ 1-49-11 स्वधिष्ठिताः सुष्ठुपालिताः ॥ 1-49-13 शारद्वतस्य कृपाचार्यस्य ॥ 1-49-14 सोत्तरायमिति पादपूरणार्थः सन्धिः । अजीजनज्जातः ॥ 1-49-17 षष्टिवषाणि जन्मतः षष्टिपर्वपर्यन्तं न तु राज्यलाभात् ॥ 1-49-18 वर्षसहस्राणि चिरकालमित्यर्थः । पालयितुमिति शेषः ॥ 1-49-20 आचक्षध्वं भ्वादेराकृतिगणत्वाच्छपो न लुक् ॥ 1-49-26 वयस्थो वृद्धः ॥ एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥