अध्यायः 048 वासुकेः तद्भगिन्याश्च संवादः ॥ 1 ॥ आस्तीकोत्पत्तिः ॥ 2 ॥ तन्नामनिर्वचनम् ॥ 3 ॥
सौतिरुवाच । 001
गतमात्रं तु भर्तारं जरत्कारुरवेदयत् । 001a
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन ॥ 001c
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् । 002a
उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥ 002c
वासुकिरुवाच । 003
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् । 003a
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥ 003c
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् । 004a
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह ॥ 004c
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् । 005a
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥ 005c
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् । 006a
किन्तु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम् ॥ 006c
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः । 007a
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥ 007c
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम् । 008a
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम् ॥ 008c
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत । 009a
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥ 009c
जरत्कारुरुवाच । 010
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः । 010a
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः ॥ 010c
स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः । 011a
उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥ 011c
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे । 012a
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः ॥ 012c
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः । 013a
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥ 013c
सौतिरुवाच । 014
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा । 014a
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥ 014c
सान्त्वमानार्थदानैश्च पूजया चारुरूपया । 015a
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥ 015c
ततः प्रववृधे गर्भो महातेजा महाप्रभः । 016a
यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥ 016c
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा । 017a
कुमारं देवगर्भाभं पितृमातृभयापहम् ॥ 017c
ववृधे स तु तत्रैव नागराजनिवेशने । 018a
वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात् ॥ 018c
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः । 019a
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥ 019c
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् । 020a
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥ 020c
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् । 021a
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः ॥ 021c
भगवानिव देवेशः शूलपाणिर्हिरण्मयः । 022a
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥ ॥ 022c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥
1-48-6 अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान् ॥ 1-48-10 ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः ॥ 1-48-11 वितथं अनृतं तेन उक्तपूर्वं न स्मरामि । साम्पराये सङ्कटे ॥ 1-48-17 प्रजज्ञे जनयामास ॥ 1-48-22 हिरण्मयः दीप्तिमान् ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥