अध्यायः 047 जरत्कारोरुद्वाहः ॥ 1 ॥ तस्यां गर्भसम्भवः ॥ 2 ॥ समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम् ॥ 3 ॥

सौतिरुवाच । 001
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा । 001a
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता ॥ 001c
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । 002a
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन । 002c
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम ॥ 002e
जरत्कारुरुवाच । 003
न भरिष्येऽहमेतां वै एष मे समयः कृतः । 003a
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम् ॥ 003c
सौतिरुवाच । 004
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति । 004a
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥ 004c
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः । 005a
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥ 005c
ततो वासगृहं रम्यं पन्नगेन्द्रस्य सम्मतम् । 006a
जगाम भार्याम दाय स्तूयमानो महर्षिभिः ॥ 006c
शयनं तत्र सङ्क्लृप्तं स्पर्ध्यास्तरणसंवृतम् । 007a
तत्र भार्यासहायो वै जरत्कारुरुवास ह ॥ 007c
स तत्र समयं चक्रे भार्यया सह सत्तमः । 008a
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥ 008c
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे । 009a
एतद्गृहाण वचनं मया यत्समुदीरितम् ॥ 009c
ततः परमसंविग्ना स्वसा नागपतेस्तदा । 010a
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति ॥ 010c
तथैव सा च भर्तारं दुःखशीलमुपचारत् । 011a
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥ 011c
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा । 012a
भर्तारं वै यथान्यायमुपतस्थे महामुनिम् ॥ 012c
तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः । 013a
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः ॥ 013c
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः । 014a
ततः कतिपयाहस्तु जरत्कारुर्महायशाः ॥ 014c
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् । 015a
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ॥ 015c
अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा । 016a
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥ 016c
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा । 017a
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥ 017c
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः । 018a
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम् ॥ 018c
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति । 019a
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥ 019c
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । 020a
तमृषिं दीप्ततपसं शयानमनलोपमम् ॥ 020c
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी । 021a
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति ॥ 021c
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः । 022a
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ॥ 022c
सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो । 023a
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः ॥ 023c
भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् । 024a
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे ॥ 024c
समीपे ते न वत्स्यामि गमिष्यामि यथागतम् । 025a
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः ॥ 025c
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते । 026a
न चाप्यवमतस्येह वासो रोचेत कस्यचित् ॥ 026c
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा । 027a
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् ॥ 027c
अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने । 028a
नावमानात्कृतवती तवाहं विप्रे बोधनम् ॥ 028c
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम् । 029a
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ॥ 029c
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् । 030a
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे ॥ 030c
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः । 031a
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ॥ 031c
इतो मयि गते भीरु गतः स भगवानिति । 032a
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥ 032c
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा । 033a
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥ 033c
बाष्पगद्गदया वाचा मुखेन परिशुष्यता । 034a
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥ 034c
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता । 035a
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ 035c
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् । 036a
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ॥ 036c
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः । 037a
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम ॥ 037c
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते । 038a
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ॥ 038c
सम्प्रयोगो भवेन्नायां मम मोघस्त्वया द्विज । 039a
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ॥ 039c
इममव्यक्तरूपं मे गर्भमाधाय सत्तम । 040a
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥ 040c
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् । 041a
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः ॥ 041c
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः । 042a
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ 042c
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः । 043a
उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥ ॥ 043c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥ 1-47-7 स्पर्ध्यं बहुमूल्यम् ॥ 1-47-9 विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम् ॥ 1-47-11 श्वतकाकीयैः अनुकूलैः ॥ 1-47-15 उत्सङ्गे अङ्के ॥ 1-47-18 कोपो वा गरीयान्धर्मलोपो वा गरीयानिति कोदिद्वयमुपन्यस्य धर्मलोपमेव गुरुकरोति । कोपो वेति ॥ 1-47-22 प्रादुष्कृतः उद्धृतः अग्निहोत्रोऽग्निः यस्मिन्सः । धर्मसाधनत्वाद्रम्यः । भूतादिप्रचाराद्दारुणः ॥ 1-47-25 विभावसोः सूर्यस्य ॥ 1-47-39 सम्प्रयोगः सम्बन्ध । मोघो निष्फलः ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥