अध्यायः 046 जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम् ॥ 1 ॥

सौतिरुवाच । 001
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः । 001a
उवाच तान्पितॄन्दुःखाद्बाष्पसन्दिग्धया गिरा ॥ 001c
जरत्कारुरुवाच । 002
मम पूर्वे भवन्तो वै पितरः सपितामहाः । 002a
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया ॥ 002c
अहमेव जरत्कारुः किल्बिषी भवतां सुतः । 003a
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥ 003c
पितर ऊचुः । 004
पुत्र दिष्ट्याऽसि सम्प्राप्त इमं देशं यदृच्छया । 004a
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥ 004c
जरत्कारुरुवाच । 005
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते । 005a
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥ 005c
न दारान्वै करिष्येऽहमिति मे भावितं मनः । 006a
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः ॥ 006c
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः । 007a
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम् ॥ 007c
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन । 008a
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता ॥ 008c
प्रतिग्रहीता तामस्मि न भरेयं च यामहम् । 009a
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि । 009c
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः ॥ 009e
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । 010a
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम ॥ 010c
सौतिरुवाच । 011
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः । 011a
न च स्म लभते भार्यां वृद्धोऽयमिति शानक ॥ 011c
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा । 012a
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥ 012c
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया । 013a
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः ॥ 013c
यानि भूतानि सन्तीह स्थावराणि चराणि च । 014a
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥ 014c
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् । 015a
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया ॥ 015c
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः । 016a
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः ॥ 016c
यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः । 017a
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥ 017c
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत् । 018a
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥ 018c
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः । 019a
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥ 019c
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम् । 020a
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥ 020c
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने । 021a
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥ 021c
असनामेति वै मत्वा भरणे चाविचारिते । 022a
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे ॥ 022c
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन । 023a
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह ॥ ॥ 023c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥ 1-46-7 निवेक्ष्ये निवेशं विवाहं करिष्ये ॥ 1-46-9 न भरेयं धारणपोषणे न कुर्याम् ॥ 1-46-19 जरत्कारौ जरत्कारोरन्वेषणे । समाहिताः यत्ताः ॥ षट्चत्वारिंशोऽध्यायः ॥ 46 ॥