अध्यायः 044 परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः ॥ 1 ॥ वपुष्टमाविवाहः ॥ 2 ॥
सौतिरुवाच । 001
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् । 001a
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥ 001b
तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः । 002a
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम् ॥ 002b
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् । 003a
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥ 003b
ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः । 004a
भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा ॥ 004b
ततो नृपे तक्षकतेजसाहते प्रयुज्य सर्वाः परलोकसत्क्रियाः । 005a
शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः ॥ 005b
नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः । 006a
नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः ॥ 006b
स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा । 007a
शशास राज्यं कुरुपुङ्गवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा ॥ 007b
ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः । 008a
सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयाम्प्रचक्रमुः ॥ 008b
ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः । 009a
स चापि तां प्राप्य मुदा युतोऽभव-न्न चान्यनारीषु मनो दधे क्वचित् ॥ 009b
सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान् । 010a
तथा स राजन्यवरो विजह्रिवान्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥ 010b
वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम् । 011a
भावेन रामा रमयाम्बभूव तं विहारकालेष्ववरोधसुन्दरी ॥ ॥ 011b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥
*1-44-2 दह्यमानं ततो दृष्ट्वा इति पाठान्तरम् ॥ 1-44-7 प्रपितामहो युधिष्ठिरः ॥ 1-44-8 वपुष्टमा काशिराजकन्या ॥ 1-44-11 वरं वरणीयम् । प्रतीतरूपा हृष्टरूपा ॥ चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥