अध्यायः 043 *स्वदष्टन्यग्रोधोज्जीवनेन परीक्षितस्य काश्यपस्य धनं दत्वा तक्षकेण कृतं परावर्तनं परीक्षिद्दंशश्च ॥ 1 ॥

तक्षक उवाच । 001
यदि दष्टं मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् । 001a
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥ 001b
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च । 002a
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ 002b
काश्यप उवाच । 003
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे । 003a
अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम । 003b
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग ॥' 003c
सौतिरुवाच । 004
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना । 004a
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ 004b
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना । 005a
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ 005b
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् । 006a
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥ 006b
सौतिरुवाच । 007
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । 007a
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥ 007b
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ । 008a
अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥ 008b
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः । 009a
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥ 009b
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् । 010a
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ 010b
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । 011a
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि ॥ 011b
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा । 012a
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥ 012b
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात् । 013a
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥ 013b
विप्रशापाभिभूते च क्षीणायुषि नराधिपे । 014a
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ 014b
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । 015a
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥ 015b
काश्यप उवाच । 016
धनार्थी याम्यहं तत्र तन्मे देहि भुजङ्गम । 016a
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै ॥ 016b
तक्षक उवाच । 017
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । 017a
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम ॥ 017b
सौतिरुवाच । 018
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । 018a
प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान् ॥ 018b
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । 019a
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥ 019b
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् । 020a
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ॥ 020b
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् । 021a
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ॥ 021b
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः । 022a
सौतिरुवाच । 022
स चिन्तयामास तदा मायायोगेन पार्थिवः ॥ 022b
मया वञ्चयितव्योऽसौ क उपायो भवेदिति । 023a
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् ॥ 023b
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः । 024a
तक्षक उवाच । 024
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ॥ 024b
फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम् । 025a
सौतिरुवाच । 025
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः ॥ 025b
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च । 026a
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ॥ 026b
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान् । 027a
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ॥ 027b
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः । 028a
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ॥ 028b
तापसैरुपनीतानि फलानि सहिता मया । 029a
ततो राजा ससचिवः फलान्यादातुमैच्छत ॥ 029b
विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु । 030a
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् ॥ 030b
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः । 031a
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक ॥ 031b
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् । 032a
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ 032b
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् । 033a
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ 033b
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । 034a
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह ॥ 034b
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः । 035a
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः ॥ 035b
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् । 036a
वेष्टयित्वा च भोगेन विनद्य च महास्वनम् । 036b
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ ॥ 036c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥ *1-43-3 दश दंशं कुरु ॥ 1-43-6 नगं वृक्षम् ॥ 1-43-13 यत् फलं प्राप्तुमभिलषितं तत् इत्यन्वयः ॥ 1-43-14 घटमानस्य सज्जमानस्य ॥ 1-43-16 स्वापतेयं धनम् ॥ 1-43-22 तत्रागतैर्विषहरैरिति पाठान्तरम् ॥ 1-43-31 यज्जग्राह फलं राजा तत्र क्रिमिरभूदणुः इति पाठान्तरम् ॥ 1-43-33 क्रिमिको मां दशत्वयं इति पाठान्तरम् ॥ त्रिचत्वारिशोऽध्यायः ॥ 43 ॥