अध्यायः 040 जरत्कारुनामव्युत्पत्तिकथनम् ॥ 1 ॥ शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः ॥ 2 ॥ प्रसङ्गेन परीक्षिन्मृगयाकथनम् ॥ 3 ॥ परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम् ॥ 4 ॥
शौनक उवाच । 001
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन । 001a
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः ॥ 001b
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । 002a
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि ॥ 002b
सौतिरुवाच । 003
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । 003a
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः ॥ 003b
क्षपयामास तीव्रेण तपसेत्यत उच्यते । 004a
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥ 004b
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । 005a
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥ 005b
शौनक उवाच । 006
उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् । 006a
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् । 006b
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः ॥ 006b
सौतिरुवाच । 007
सन्दिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः । 007a
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ॥ 007b
अथ कालस्य महतः स मुनिः संशितव्रतः । 008a
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत ॥ 008b
स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा । 009a
चचार सर्वां पृथिवीं महात्मान चापि दारान्मनसाध्यकाङ्क्षत् ॥ 009b
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । 010a
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः ॥ 010b
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि । 011a
बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥ 011b
तथा विख्यातवाल्ँलोके परीक्षिदभिमन्युजः ।' 012a
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । 012b
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥ 012c
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा । 013a
पृष्ठतो धनुरादाय ससार गहने वने ॥ 013b
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । 014a
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः ॥ 014b
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने । 015a
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति ॥ 015b
परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः । 016a
दूरं चापहृतस्तेन मृगेण स महीपतिः ॥ 016b
परिश्रान्तः पिपासार्त आससाद मुनिं वने । 017a
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ॥ 017b
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः । 018a
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ॥ 018b
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः । 019a
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः ॥ 019b
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि । 020a
स मुनिस्तं तु नोवाच किञ्चिन्मौनव्रते स्थितः ॥ 020b
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् । 021a
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत ॥ 021b
न स किञ्चिदुवाचैनं शुभं वा यदि वाऽशुभम् । 022a
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । 022b
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः ॥ 022c
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः । 023a
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् ॥ 023b
न हि तं राजशार्दूलस्तथा धर्मपरायणम् । 024a
जानाति भरतश्रेष्ठस्तत एनमधर्षयत् ॥ 024b
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । 025a
शृङ्गी नाम महाक्रोधो दुष्प्रसादोमहाव्रतः ॥ 025b
स देवं परमासीनं सर्वभूतहिते रतम् । 026a
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः ॥ 026b
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् । 027a
सख्योक्तः क्रीडमानेन स तत्र हसता किल ॥ 027b
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः । 028a
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् । 028b
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम ॥ 028c
कृश उवाच । 029
तेजस्विनस्तव पिता तथैव च तपस्विनः । 029a
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥ 029b
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वद । 030a
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥ 030b
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । 031a
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा ॥ 031b
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः । 032a
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः ॥ ॥ 032b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
*1-40-3 कारु कामाद्युपद्रवमूलत्वाद्दारुणं शरीरं जरयति क्षपयतीति जरत्कारुरिति निर्वचनम् ॥ 1-40-4 तथा तादृस्येव ॥ 1-40-5 प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्यं मत्वेति भावः । आमन्त्र्य हे उग्रश्रव इति सम्बोध्य । उपपन्नं युक्तं यत्तुल्यवयोरूपयोर्विवाह इति भावः ॥ 1-40-15 तत् मृगस्यादर्शनं । पूर्वरूपं कारणम् ॥ 1-40-17 प्रचारेषु गोष्ठेषु ॥ 1-40-18 उपयुञ्जानं भक्षयन्तम् । पयः आपिबतां वत्सानामिति पूर्वेणान्वयः ॥ 1-40-21 समासजत् आरोपयामास ॥ चत्वारिंशोऽध्यायः ॥ 40 ॥