अध्यायः 039 एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम् ॥ 1 ॥
सौतिरुवाच । 001
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम । 001a
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन् ॥ 001b
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत । 002a
जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥ 002b
ततो नातिमहान्कालः समतीत इवाभवत् । 003a
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥ 003b
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः । 004a
समाप्यैव च तत्कर्म पितामहमुपागमन् ॥ 004b
देवा वासुकिना सार्धं पितामहमथाव्रुवन् । 005a
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥ 005b
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि । 006a
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः ॥ 006b
हितो ह्ययं सदास्माकं प्रियकारी च नागराट् । 007a
प्रसादं कुरु देवेश शमयास्य मनोज्वरम् ॥ 007b
ब्रह्मोवाच । 008
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः । 008a
एलापत्रेण नागेन यदस्याभिहितं पुरा ॥ 008b
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् । 009a
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥ 009b
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः । 010a
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥ 010b
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह । 011a
पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥ 011b
सौतिरुवाच। 012
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा । 012a
सन्दिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः ॥ 012b
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति । 013a
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥ 013b
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः । 014a
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति ॥ ॥ 014b
इति श्रीमनमहाभारते आदिपर्वणि आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
*1-39-4 नेत्रं रज्जुः ॥ 1-39-13 जरत्कारौ जरत्कारुऋषिनिमित्तं । तदन्वेषणायेत्यर्थः ॥ एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥