अध्यायः 038 *एलापत्रभाषणम् ॥ 1 ॥ देवब्रह्मसंवादमुखेनास्तीकोत्पत्तिकथनम् ॥ 2 ॥

सौतिरुवाच । 001
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च । 001a
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥ 001b
प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः । 002a
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो ॥ 002b
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता । 003a
तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः ॥' 003b
न स यज्ञो न भविता न स राजा तथाविधः । 004a
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम् ॥ 004b
दैवेनोपहतो राजन्यो भवेदिह पूरुषः । 005a
स दैवमेवाश्रयेत नान्यत्तत्र परायणम् ॥ 005b
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः । 006a
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥ 006b
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । 007a
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः । 007b
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो ॥ 007c
शापदुःखाग्नितप्तानां पन्नगानामनामयम् । 008a
कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः ॥' 008b
पितामहमुपागम्य देवा वचनमब्रुवन् | 009a
देवा ऊचुः । 009
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह । 009b
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥ 009c
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह । 010a
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता ॥ 010b
ब्रह्मोवाच । 011
बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः । 011a
प्रजानां हितकामोऽहं न च वारितवांस्तदा ॥ 011b
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः । 012a
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥ 012b
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् । 013a
पन्नगानां निबोधध्वं तस्मिन्काले समागते ॥ 013b
यायावरकुले धीमान्भविष्यति महानृषिः । 014a
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः ॥ 014b
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः । 015a
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा । 015b
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥ 015c
देवा ऊचुः । 016
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः । 016a
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥ 016b
ब्रह्मोवाच । 017
वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना । 017a
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः ॥ 017b
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् । 018a
सनामायां सनामा स कन्यायां द्विजसत्तमः ॥ 018b
एलापत्र उवाच । 019
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् । 019a
उक्त्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ ॥ 019b
सोऽहमेवं प्रपश्यामि वासुके भगिनी तव । 020a
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय ॥ 020b
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये । 021a
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया ॥ ॥ 021b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ *1-38-1 इतिचेतिचेति तत्तद्वचनाभिनयप्रदर्शनम् ॥ 1-38-4 न भवितेति न भवितैवेत्यर्थः । न तथाविधः यस्य राष्ट्रमृत्विजः स्वरूपं वा द्रष्टुं शक्यं तादृशो न भवति मन्त्रवीर्यसम्पन्नत्वात् ॥ 1-38-7 तीक्ष्णास्तीक्ष्णाः अत्यन्तं तीक्ष्णाः स्त्रिय इति शेषः ॥ 1-38-12 दन्दशूकाः दंशनशीलाः । क्षुद्राः अल्पेपि निमित्ते प्राणग्राहकाः ॥ अष्टत्रिंशोऽध्यायः ॥ 38 ॥