अध्यायः 037 मातृशापपरिहारार्थं सर्पाणां मन्त्रालोचनम् ॥ 1 ॥
सौतिरुवाच । 001
मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः । 001a
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥ 001b
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः । 002a
ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः ॥ 002b
वासुकिरुवाच । 003
अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः । 003a
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥ 003b
सर्वेषामेव शापानां प्रतिघातो हि विद्यते । 004a
न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते ॥ 004b
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः । 005a
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥ 005b
नूनं सर्वविनाशोऽयमस्माकं समुपागतः । 006a
शापः सृष्टो महाघोरो मात्रा खल्वविनीतया । 006b
न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत् ॥ 006c
तस्मात्सम्मन्त्रयामोऽद्य भुजङ्गानामनामयम् । 007a
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम् ॥ 007b
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः । 008a
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे ॥ 008b
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् । 009a
यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः । 009b
जनमेजयस्य सर्पाणां विनाशकरणाय वै ॥ 009c
सौतिरुवाच । 01
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः । 010a
समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः ॥ 010b
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः । 011a
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति ॥ 011b
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः । 012a
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसम्मताः ॥ 012b
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् । 013a
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति ॥ 013b
स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः । 014a
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥ 014b
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् । 015a
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥ 015b
अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति । 016a
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥ 016b
तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति । 017a
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति ॥ 017b
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः । 018a
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥ 018b
अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः । 019a
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम् ॥ 019b
सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा । 020a
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥ 020b
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् । 021a
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥ 021b
स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः । 022a
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥ 022b
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः । 023a
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति ॥ 023b
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः । 024a
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥ 024b
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे । 025a
यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति ॥ 025b
वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम् । 026a
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ॥ 026b
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः । 027a
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः ॥ 027b
दशामस्तं प्रगृह्याशु कृतमेवं भविष्यति । 028a
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥ 028b
एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः । 029a
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम् ॥ 029b
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम् । 030a
वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥ 030b
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः । 031a
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥ 031b
किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत् । 032a
श्रेयः प्रसादनं मन्ये कश्यपस्य महात्मनः ॥ 032b
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः । 033a
न च जानाति मे बुद्धिः किञ्चित्कर्तुं वचो हिवः ॥ 033b
मया हीदं विधातव्यं भवतां यद्धितं भवेत् । 034a
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ ॥ 034b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
1-37-5 सत्यस्य सत्यलोकाधिपतेर्ब्रह्मणः ॥ 1-37-10 मन्त्रबुद्धिविशारदाः नीतिनिश्चयनिपुणाः ॥ 1-37-13 निवर्त्स्यति निवृत्तो भविष्यति ॥ 1-37-18 कृतं प्रतिकृतम् ॥ 1-37-20 व्यसने आपदि शान्तिः आपन्नाशः । सद्धर्ममूला सतां धर्मो देवब्राह्मणप्रार्थना तन्मूला ॥ 1-37-29 नैष्ठिकी आत्यन्तिकी । ईक्षणमेव श्रवः श्रोत्रं यस्य स तथाभूत हे वासुके ॥ 1-37-31 ज्ञातिरक्षानाशनिमित्तौ गुणदोषौ मदाश्रयौ ज्येष्ठत्वान्ममेत्यर्थः ॥ सप्तत्रिंशोऽध्यायः ॥ 37 ॥