शेषस्य ब्रह्मणो वरलाभः पृथ्वीधारणाज्ञा च ॥ 1 ॥ शौनक उवाच । आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः । 001a
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम् ॥ 001b
सौतिरुवाच । तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः । 002a
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः ॥ 002b
गन्धमादनमासाद्य बदर्यां च तपोरतः । 003a
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥ 003b
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । 004a
एकान्तशीलो नियतः सततं विजितेन्द्रियः ॥ 004b
तप्यमानं तपो घोरं तं ददर्श पितामहः । 005a
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम् ॥ 005b
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । 006a
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥ 006b
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । 007a
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः ॥ 007b
शेष उवाच । सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । 008a
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥ 008b
अभ्यसूयन्ति सततं परस्परममित्रवत् । 009a
ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत ॥ 009b
न मर्षयन्ति ससुतां सततं विनतां च ते । 010a
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः ॥ 010b
तं च द्विषन्ति सततं स चापि बलवत्तरः । 011a
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥ 011b
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । 012a
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥ 012b
तमेवं वादिनं शेषं पितामह उवाच ह । 013a
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ॥ 013b
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् । 014a
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम ॥ 014b
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि । 015a
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ॥ 015b
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि । 016a
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम । 016b
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥ 016c
शेष उवाच । एष एव वरो देव काङ्क्षितो मे पितामह । 017a
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥ 017b
ब्रह्मोवाच । प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च । 018a
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥ 018b
इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम् 019a
त्वं शेष सम्यक् चलितां यथाव-त्सङ्गृह्य तिष्ठस्व यथाऽचला स्यात् ॥ 019b
शेष उवाच । यथाऽऽह देवो वरदः प्रजापति-र्महीपतिर्भूतपतिर्जगत्पतिः । 020a
तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते ॥ 020b
ब्रह्मोवाच । अधो महीं गच्छ भुजङ्गमोत्तमस्वयं तवैषा विवरं प्रदास्यति । 021a
इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति ॥ 021b
सौतिरुवाच । तथैव कृत्वा विवरं प्रविश्य सप्रभुर्भुवो भुजगवराग्रजः स्थितः । 022a
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः ॥ 022b
ब्रह्मोवाच । शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः । 023a
अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा ॥ 023b
सौतिरुवाच । अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान् । 024a
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभोः ॥ 024b
सुपर्णं च सहायं वै भगवानमरोत्तमः । 025a
प्रादादनन्ताय तदा वैनतेयं पितामहः ॥ 025b
अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः । 026a
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः ॥' ॥ 026b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्त्रिंशोऽध्यायः ॥ 37 ॥ 1-36-1 उत्तरं अनन्तरम् ॥ 1-36-23 अनन्तभोगैः अनन्तफणाभिः ॥ षट्त्रिंशोऽध्यायः ॥ 36 ॥