अध्यायः 035 सर्पनामकथनम् ॥ 1 ॥
शौनक उवाच ।
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च । 001a
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥ 001b
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । 002a
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥ 002b
पन्नगानां तु नामानि न कीतर्यसि सूतज । 003a
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥ 003b
सौतिरुवाच ।
बहुत्वान्नामधेयानि पन्नगानां तपोधन । 004a
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥ 004b
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । 005a
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥ 005b
कालियो मणिनागश्च नागश्चापूरणस्तथा । 006a
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥ 006b
नीलानीलौ तथा नागौ कल्माषशबलौ तथा । 007a
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः ॥ 007b
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः । 008a
आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा ॥ 008b
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा । 009a
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥ 009b
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । 010a
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥ 010b
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः । 011a
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा ॥ 011a
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः । 012a
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः ॥ 012b
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । 013a
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान् ॥ 013b
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । 014a
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः ॥ 014b
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः । 015a
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥ 015b
कर्दमश्च महानागो नागश्च बहुमूलकः । 016a
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ ॥ 016b
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । 017a
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः ॥ 017b
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः । 018a
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन ॥ 018b
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । 019a
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन ॥ ॥इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥ 019b
*1-35-1 भुजङ्गमानां मात्रा शापो दत्तस्तस्य कारणं अवज्ञया मातुराज्ञाकारित्वं । विनतायाः सुतेन अरुणेन शापो दत्तस्तस्य कारणं सपत्नीर्ष्या ॥ पञ्चत्रिंशोऽध्यायः ॥ 35 ॥