अध्यायः 034 *इन्द्रस्य गरुडसख्यलाभः ॥ 1 ॥ इन्द्राद्गरुडस्य वरलाभः ॥ 2 ॥ विनताया दास्यमोचनम् ॥ 3 ॥ सर्पाणां द्विजिह्वत्वप्राप्तिः ॥ 4 ॥ सौतिरुवाच । 001
इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्' । 001a
गरुड उवाच । 001
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर । 001b
बलं तु मम जानीहि महच्चासह्यमेव च ॥ 001c
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । 002a
'अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् ॥ 002b
गुणसङ्कीर्तनं चापि पृष्टेनान्येन गोपते । 003a
वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो ॥' 003b
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया । 004a
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥ 004b
सपर्वतवनामुर्वीं ससागरजलामिमाम् । 005a
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम् ॥ 005b
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् । 006a
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥ 006b
सौतिरुवाच । 007
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः । 007a
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः ॥ 007b
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि । 008a
सङ्गृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम् ॥ 008b
न कार्यं यदि सोमेन मम सोमः प्रदीयताम् । 009a
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥ 009b
गरुड उवाच । 010
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया । 010a
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम् ॥ 010b
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् । 011a
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर ॥ 011b
शक्र उवाच । 012
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज । 012a
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम ॥ 012b
सौतिरुवाच । 013
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् । 013a
स्मृत्वा चैवोधिकृतं मातुर्दास्य निमित्ततः ॥ 013b
गरुड उवाच । 014
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् । 014a
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ 014b
सौतिरुवाच । 015
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः । 015a
देवदेवं महात्मानं योगिनामीश्वरं हरिम् ॥ 015b
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै । 016a
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः ॥ 016b
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् । 017a
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम् ॥ 017b
'विनयावनतो भूत्वा वचनं चेदमब्रवीत् । 018a
इदमानीतममृतं देवानां भवनान्मया ॥ 018b
प्रशाधि किमितो मातः करिष्यामि शुभव्रते । 019a
विनतोवाच । 019
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक ॥ 019b
अजरश्चामरश्चैव देवानां सुप्रियो भव । 020a
सौतिरुवाच ।' 020
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् । 020b
गरुड उवाच । 020
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ॥ 020c
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः । 021a
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा ॥ 021b
अदासी चैव मातेयमद्यप्रभृति चास्तु मे । 022a
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥ 022b
सौतिरुवाच । 023
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । 023a
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥ 023b
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा । 024a
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥ 024b
परस्परकृतद्वेषाः सोमप्राशनकर्मणि । 025a
अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् ॥' 025b
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे । 026a
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ॥ 026b
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा । 027a
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा ॥ 027b
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः । 028a
नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः । 028b
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो ॥' 028c
एवं तदमृतं तेन हृतमाहृतमेव च । 029a
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥ 029b
ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने । 030a
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत् ॥ 030b
इमां कथां यः शृणुयान्नरः सदापठेत वा द्विजगणमुख्यसंसदि । 031a
असंशयं त्रिदिवमियात्स पुण्यभाङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ ॥ 031b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥ *1-34-6 सम्पिण्डितान् एकीकृतान् । स्थाणु स्थावरम् ॥ 1-34-7 किरीटी इन्द्रः ॥ 1-34-13 उपधिकृतं छलकृतम् ॥ 1-34-14 ईशः समर्थः । अर्थितां अन्यस्मै अमृतं न देयमित्यर्थेप्सुताम् ॥ 1-34-17 अनुभाष्य हे गरुडेति सम्बोध्य ॥ 1-34-20 इदं वः युष्माकममृतं न तु मम ॥ 1-34-26 प्रतिमायाकृतं यथा दास्यं मायाकृतं तथा अमृतदानमपि इतरेण कृतमित्यर्थः ॥ चतुस्त्रिंशोऽध्यायः ॥ 34 ॥