अध्यायः 033
अमृतसमीपे गरुडस्य गमनम् ॥ 1 ॥ अमृतं गृहीत्वा गच्छतो गरुडस्य विष्णुदर्शनम् ॥ 2 ॥ विष्णुगरुडयोः परस्परं वरदानम् ॥ 3 ॥ गरुडस्य सुपर्णनामप्राप्तिः ॥ 4 ॥
सौतिरुवाच ।
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः । 001a
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥ 001b
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके । 002a
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥ 002b
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । 003a
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥ 003b
तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः । 004a
अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥ 004b
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती । 005a
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ ॥ 005b
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ । 006a
अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ ॥ 006b
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ । 007a
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥ 007b
तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः । 008a
कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ ॥ 008b
इति सञ्चिन्त्य गरुडस्तयोस्तूर्णं निराकरः ।' 009a
तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत् । 009b
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत् ॥ 009c
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः । 010a
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ 010b
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली । 011a
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥ 011b
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः । 012a
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः ॥ 012b
विष्णुना च तदाकाशे वैनतेयः समेयिवान् । 013a
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥ 013b
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । 014a
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥ 014b
उवाच चैनं भूयोऽपि नारायणमिदं वचः । 015a
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम् ॥ 015b
016 सौतिरुवाच ।
एवमस्त्विति तं विष्णुरुवाच विनतासुतम् । 016a
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत् ॥ 016b
भवतेपि वरं दद्यां वृणोतु भगवानपि । 017a
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् ॥ 017b
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् । 018a
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः ॥ 018b
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः । 019a
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥ 019b
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम् । 020a
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ॥ 020b
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः । 021a
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् ॥ 021b
वज्रस्य च करिष्यामि तवैव च शतक्रतो । 022a
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ॥ 022b
न च वज्रनिपातेन रुजा मेऽस्तीह काचन । 023a
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट् ॥ 023b
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् । 024a
हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः ॥ 024b
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति । 025a
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः । 025b
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत ॥ 025c
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् । 026a
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥ ॥ 026b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
*1-33-4 सङ्क्षिप्य अणुतरं कृत्वा ॥ 1-33-10 तयोः अङ्गे देहौ आच्छिनत् खण्डशः कृतवान् ॥ 1-33-11 यन्त्रमुन्मथ्य अमृतं अमृतकुम्भं समुत्पाठ्य उत्पपातेत्यन्वयः ॥ 1-33-12 आवार्य वारयित्वा तिरस्कृत्येत्यर्थः ॥ 1-33-13 अलौल्येन अमृतपानलोभराहित्येन ॥ 1-33-14 उपरि ध्वजे इत्यर्थः ॥ 1-33-19 स्पर्धावानिवाचरतीति स्पर्धन् ॥ 1-33-20 आक्रन्दे कलकले ॥ 1-33-21 ऋषेः दधीचेः ॥ त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥