अध्यायः 032
*देवगरुडयुद्धं तत्र देवानां पराजयः ॥ 1 ॥
सौतिरुवाच । 001
ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः ।' 001a
गरुडः पक्षिराट् तूर्णं सम्प्राप्तो विबुधान्प्रति ॥ 001b
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः । 002a
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत ॥ 002b
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः । 003a
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता ॥ 003b
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः । 004a
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥ 004b
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः । 005a
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥ 005b
तेनावकीर्णा रजसा देवा मोहमुपागमन् । 006a
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः ॥ 006b
एवं संलोडयामास गरुडस्त्रिदिवालयम् । 007a
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह ॥ 007b
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् । 008a
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत ॥ 008b
सौतिरुवाच । 009
अथ वायुरपोवाह तद्रजस्तरसा बली । 009a
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥ 009b
ननादोच्चैः स बलवान्महामेघ इवाम्बरे । 010a
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥ 010b
उत्पपात महावीर्यः पक्षिराट् परवीरहा । 011a
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ॥ 011b
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् । 012a
पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः ॥ 012b
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः । 013a
नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः ॥ 013b
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत । 014a
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान् । 014b
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान् ॥ 014c
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः । 015a
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥ 015b
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् । 016a
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः ॥ 016b
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम् । 017a
मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः ॥ 017b
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट् । 018a
क्रथनेन च शूरेण तपनेन च खेचरः ॥ 018b
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट् । 019a
प्ररुजेन च सङ्ग्रामं चकार पुलिनेन च ॥ 019b
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः । 020a
युगान्तकाले सङ्क्रुद्धः पिनाकीव परन्तप ॥ 020b
महाबला महोत्साहास्तेन ते बहुधा क्षताः । 021a
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥ 021b
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् । 022a
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥ 022b
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् । 023a
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥ 023b
'नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयङ्करम् ।' 024a
ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तरस्वी । 024b
नदीः समापीय मुखैस्ततस्तैःसुशीघ्रमागम्य पुनर्जवेन ॥ 024c
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः । 025a
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ ॥ 025b
*इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
1-32-3 भौमनः विश्वकर्मा ॥ 1-32-4 विनिहतः मृतकल्पः कृतः ॥ 1-32-9 अपोवाह अपसारितवान् ॥ 1-32-24 नवत्याः नवतीः शताधिकाष्टसाहस्रीः ॥ 1-32-25 समास्तरत् आच्छादितवान् शामितवानित्यर्थः ॥ द्वात्रिंशोऽध्यायः ॥ 32 ॥