अध्यायः 031 *वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम् ॥ 1 ॥ शौनक उवाच । 001
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज । 001a
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥ 001b
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः । 002a
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम् ॥ 002b
कथं च कामचारी स कामवीर्यश्च खेचरः । 003a
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥ 003b
सौतिरुवाच । 004
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि । 004a
शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥ 004b
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः । 005a
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥ 005b
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह । 006a
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥ 006b
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् । 007a
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ 007b
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः । 008a
पलाशवर्तिकामेकां वहतः संहतान्पथि ॥ 008b
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । 009a
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥ 009b
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः । 010a
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च ॥ 010b
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः । 011a
आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥ 011b
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् । 012a
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥ 012b
कामवीर्यः कामगमो देवराजभयप्रदः । 013a
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥ 013b
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः । 014a
तपसो नः फलेनाद्य दारुणः सम्भवित्विति ॥ 014b
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः । 015a
जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥ 015b
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः । 016a
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥ 016b
कश्यप उवाच । 017'
केन कामेन चारब्धं भवद्भिर्होमकर्म च । 017a
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥ 017b
वालखिल्या ऊचुः । 018
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना । 018a
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥ 018b
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥ 019a
सौतिरुवाच ।' 020
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः । 020a
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥ 020b
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः । 021a
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ 021b
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः । 022a
भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः ॥ 022b
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् । 023a
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥ 023b
सौतिरुवाच । 024
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः । 024a
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥ 024b
वालखिल्या ऊचुः । 025
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते । 025a
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥ 025b
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् । 026a
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥ 026b
सौतिरुवाच । 027
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । 027a
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥ 027b
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः । 028a
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥ 028b
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः । 029a
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥ 029b
तपसा वालखिल्यानां मम सङ्कल्पतस्तथा । 030a
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ ॥ 030b
उवाच चैनां भगवान्कश्यपः पुनरेव ह । 031a
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥ 031b
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति । 032a
लोकसम्भावितो वीरः कामरूपो विहङ्गमः ॥ 032b
सौतिरुवाच । 033
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः । 033a
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः ॥ 033b
नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर । 034a
व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥ 034b
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः । 035a
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः ॥ 035b
सौतिरुवाच । 036
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् । 036a
विनता चापि सिद्धार्था बभूव मुदिता तथा ॥ 036b
जनयामास पुत्रौ द्वावरुणं गरुडं तथा । 037a
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥ 037b
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत । 038a
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ ॥ 038b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥ *1-31-8 अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान् । वर्तिकां यष्टिम् ॥ 1-31-9 स्वेष्वङ्गेषु प्रलीनानिव अतिकृशानित्यर्थः । क्लिश्यमानान् गोष्पदमात्रेति जले मज्जनेनेत्यर्थः ॥ 1-31-11 जातमन्यवः दीनाः । मन्युर्दैन्ये क्रतौ क्रुधीति कोशः ॥ 1-31-14 दारुणः इन्द्रं प्रत्येव ॥ 1-31-16 कर्मसिद्धिमपृच्छत सिद्ध वः कर्मेत्यपृच्छत् ॥ 1-31-20 एवमस्तु सिद्धमस्तु ॥ 1-31-28 पुंसवने ऋतुकाले ॥ 1-31-32 कारयिष्यति स्वार्थे णिच् ॥ एकत्रिंशोऽध्यायः ॥ 31 ॥