अध्यायः 028
*अमृताहरणार्थं गच्छतो गरुडस्य भक्ष्ययाचनम् ॥ 1 ॥ ब्राह्मणवर्जं समुद्रकुक्षिस्थनिषादभक्षणे विनताया अनुज्ञा ॥ 2 ॥
सौतिरुवाच ।
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । 001a
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥ 001b
विनतोवाच । 002
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् । 002a
भवनानि निषादानां तत्र सन्ति द्विजोत्तम ॥ 002b
पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्' । 003a
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय ॥ 003b
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन । 004a
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ 004b
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः । 005a
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ॥ 005b
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः । 006a
स ते तात न हन्तव्यः सङ्क्रुद्धेनापि सर्वथा ॥ 006b
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन । 007a
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ ॥ 007b
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः । 008a
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ॥ 008b
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः । 009a
गरुड उवाच 009
किंरूपो ब्राह्मणो मातः किंशीलः किम्पराक्रमः ॥ 009b
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः । 010a
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः ॥ 010b
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि । 010a
विनतोवाच । 011
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ॥ 011a
दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् । 011b
विप्रस्त्वया न हन्तव्यः सङ्क्रुद्धेनापि सर्वदा ॥ 012a
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः । 012b
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् ॥ 013a
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः । 013b
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा ॥ 014a
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती । 014b
विनतोवाच । 015
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः ॥ 015a
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् । 015b
विष्णुः सर्वगतः सर्वमङ्गानि तव चैव ह ।' 016a
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा ॥ 016b
इहासीना भविष्यामि स्वस्तिकारे रता सदा । 017a
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये ॥ 017b
सौतिरुवाच । 018
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात । 018a
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः ॥ 018b
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् । 019a
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन् ॥ 019b
ततः स चक्रे महदाननं तदानिषादमार्गं प्रतिरुध्य पक्षिराट् । 020a
ततो निषादास्त्वरिताः प्रवव्रजु-र्यतो मुखं तस्य भुजङ्गभोजिनः ॥ 020b
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः । 021a
सहस्रशः पवनरजोविमोहिता यथाऽनिलप्रचलितपादपे वने ॥ 021b
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः । 022a
निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा ॥ ॥ 022b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥
*1-28-18 काले समये ॥ 1-28-19 भूधरजान् पर्वतजान्वृक्षान् ॥ 1-28-22 परिचपलः तेषां ग्रहणाय सर्वतो भ्रमन् ॥ अष्टाविंशोऽध्यायः ॥ 28 ॥