अध्यायः 027
*गरुडस्य विनतां प्रति दास्यकारणप्रश्नः ॥ 1 ॥ सर्पैः दास्यमोचनोपायकथनम् ॥ 2 ॥
सौतिरुवाच । 001
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा । 001a
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै ॥ 001b
तं द्वीपं मकरावासं विहितं विश्वकर्मणा । 002a
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः ॥ 002b
सुपर्णसहिताः सर्पाः काननं च मनोरमम् । 003a
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥ 003b
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् । 004a
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥ 004b
प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम् । 005a
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥ 005b
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि । 006a
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः ॥ 006b
वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः । 007a
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः ॥ 007b
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम् । 008a
मत्तभ्रमरसङ्घुष्टं मनोज्ञाकृतिदर्शनम् ॥ 008b
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः । 009a
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥ 009b
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा । 010a
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम् ॥ 010b
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम् । 011a
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर ॥ 011b
सौतिरुवाच । 012
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा । 012a
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥ 012b
विनतोवाच । 013
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम । 013a
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥ 013b
सौतिरुवाच । 014
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । 014a
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥ 014b
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । 015a
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः ॥ 015b
सौतिरुवाच । 016
श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा । 016a
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥ ॥ 016b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥
*1-27-2 लवणं लवणासुरं पूर्वं ददृशुः ॥ 1-27-8 मनः संहर्षजं मनसः संहर्षाय जातम् ॥ 1-27-15 लेलिहाः भोसर्पाः ॥ सप्तविंशोऽध्यायः ॥ 27 ॥