अध्यायः 026 *स्तुत्या तुष्टेन इन्द्रेण कृतं जलवर्षणम् ॥ 1 ॥ सौतिरुवाच। 001
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः । 001a
नीलजीमूतसङ्घातैः सर्वमम्बरमावृणोत् ॥ 001b
मेघानाज्ञापयामास वर्षध्वममृतं शुभम् । 002a
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ॥ 002b
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि । 003a
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः ॥ 003b
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः । 004a
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः ॥ 004b
मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः । 005a
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा ॥ 005b
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत । 006a
नागानामुत्तमो हर्षस्तथा वर्षति वासवे ॥ 006b
आपूर्यत मही चापि सलिलेन समन्ततः । 007a
रसातलमनुप्राप्तं शीतलं विमलं जलम् । 007b
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः । 008a
रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः ॥ ॥ 008b
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥ *1-26-3 संवर्तः कल्पान्तः सञ्जातोस्मिन्निति संवर्तितम् ॥ 1-26-8 रामणीयकं रमणकसञ्ज्ञं द्वीपम् ॥ षड्विंशोऽध्यायः ॥ 26 ॥