अध्यायः 025
*विनतया कद्रूवहनं गरुडेन सर्पवहनं च ॥ 1 ॥ सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः ॥ 2 ॥
सौतिरुवाच । 001
ततः कामगमः पक्षी महावीर्यो महाबलः । 001a
मातुरन्तिकमागच्छत्परं पारं महोदधेः ॥ 001b
यत्र सा विनता तस्मिन्पणितेन पराजिता । 002a
अतीव दुःखसन्तप्ता दासीभावमुपागता ॥ 002b
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ । 003a
काले चाहूय वचनं कद्रूरिदमभाषत ॥ 003b
नागानामालयं भद्रे सुरम्यं चारुदर्शनम् । 004a
समुद्रकुक्षावेकान्ते तत्र मां विनते नय ॥ 004b
सौतिरुवाच । 005
ततः सुपर्णमाता तामवहत्सर्पमातरम् । 005a
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥ 005b
स सूर्यमभितो याति वैनतेयो विहङ्गमः । 006a
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन् ॥ 006b
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् । 007a
नमस्ते सर्वदेवेश नमस्ते बलसूदन ॥ 007b
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते । 008a
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ॥ 008b
त्वमेव परमं त्राणमस्माकममरोत्तम । 009a
ईशो असि पयः स्रष्टुं त्वमनल्पं पुरन्दर ॥ 009b
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे । 010a
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम् ॥ 010b
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः । 011a
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥ 011b
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः । 012a
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥ 012b
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् । 013a
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ॥ 013b
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः । 014a
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा । 014b
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ 014c
त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा । 015a
मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः ॥ 015b
महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः । 016a
अभिष्टुतः पिबसि च सोममध्वरे कषट्कृतान्यपि च हवींषि भूतये ॥ 016b
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च । 017a
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः ॥ ॥ 017b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
*1-25-6 अभितः सम्मुखम् ॥ 1-25-14 बहुलः कृष्णपक्षः ॥ पञ्चविंशोऽध्यायः ॥ 25 ॥