अध्यायः 024
राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः ॥ 1 ॥ ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम् ॥ 2 ॥
सौतिरुवाच । 001
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् । 001a
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे ॥ 001b
सुपर्ण उवाच । 002
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् । 002a
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे ॥ 002b
सौतिरुवाच । 003
ततः कामगमः पक्षी कामवीर्यो विहङ्गमः । 003a
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् ॥ 003b
मातुरन्तिकमागच्छत्परं तीरं महोदधेः । 004a
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः ॥ 004b
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा । 005a
रुरुरुवाच । 005
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा ॥ 005b
किमस्यापहृतं देवैर्येनेमं मन्युराविशत् । 006a
प्रमतिरुवाच । 006
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन् ॥ 006b
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ । 007a
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत् ॥ 007b
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति । 008a
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् ॥ 008b
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते । 009a
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः ॥ 009b
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः । 010a
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् ॥ 010b
तस्माल्लोकविनाशाय सन्तापयत भास्करः । 011a
ततो देवानुपागम्य प्रोचुरेवं महर्षयः ॥ 011b
अद्यार्धरात्रसमये सर्वलोकभयावहः । 012a
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः ॥ 012b
ततो देवाः सर्षिगणा उपगम्य पितामहम् । 013a
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम् ॥ 013b
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च । 014a
उदिते भगवन्भानौ कथनेतद्भविष्यति ॥ 014b
पितामह उवाच । 015
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः । 015a
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति ॥ 015b
तस्य प्रतिविधानं च विहितं पूर्वमेव हि । 016a
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः ॥ 016b
महाकायो महातेजाः स स्थास्यति पुरो रवेः । 017a
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति ॥ 017b
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् । 018a
प्रमतिरुवाच । 018
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः ॥ 018b
उदितश्चैव सविता ह्यरुणेन समावृतः । 019a
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् ॥ 019b
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः । 020a
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् ॥ ॥ 020b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
*1-24-2 समुद्विग्नाः समुद्विग्नानि ॥ 1-24-7 चन्द्रादित्यौ प्रतीति शेषः ॥ 1-24-12 किमुत सूर्ये उदिते इति शेषः ॥ चतुर्विंशोऽध्यायः ॥ 24 ॥