अध्यायः 023 *गरुडोत्पत्तिः ॥ 1 ॥ देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम् ॥ 2 ॥ सौतिरुवाच । तं समुद्रमतिक्रम्य कद्रूर्विनतया सह । 001a
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा ॥ 001b
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् । 002a
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥ 002b
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान् । 003a
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत् ॥ 003b
ततः सा विनता तस्मिन्पणितेन पराजिता । 004a
अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥ 004b
एतस्मिन्नन्तरे चापि गरुडः काल आगते । 005a
विना मात्रा महातेजा विदार्याण्डमजायत ॥ 005b
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः । 006a
कामरूपः कामगमः कामवीर्यो विहङ्गमः ॥ 006b
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः । 007a
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः ॥ 007b
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः । 008a
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः ॥ 008b
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम् । 009a
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥ 009b
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि । 010a
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥ 010b
अग्निरुवाच । नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः । 011a
गरुडो बलवानेष मम तुल्यश्च तेजसा ॥ 011b
जातः परमतेजस्वी विनतानन्दवर्धनः । 012a
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् ॥ 012b
नागक्षयकरश्चै काश्यपेयो महाबलः । 013a
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् ॥ 013b
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया । 014a
सौतिरुवाच । एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन् ॥ 014b
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा । 015a
देवा ऊचुः । त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ॥ 015b
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः । 016a
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः ॥ 016b
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा । 017a
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ॥ 017b
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः । 018a
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥ 018b
'त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ।' 019a
बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव । 019b
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम् ॥ 019c
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे । 020a
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥ 020b
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ । 021a
भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत् ॥ 021b
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम् । 022a
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम् ॥ 022b
परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम् । 023a
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः ॥ 023b
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते । 024a
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह ॥ 024b
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः । 025a
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी ॥ 025b
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसन्निभम् । 026a
तव द्युतिं कुपितकृतान्तसन्निभां निशाम्य नश्चलति मनोऽव्यवस्थितम् । 026b
प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः ॥ 026c
सौतिरुवाच । एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा । 027a
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ ॥ 027b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥ *1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम् ॥ 1-23-8 और्वो वडवाग्निः ॥ 1-23-9 विभावसुं अग्निम् ॥ 1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम् ॥ 1-23-25 चलन्तीत्युत्तरादपकृष्यते ॥ 1-23-26 निगृत्यतां सङ्क्षिप्यताम् ॥ त्रयोविंशोऽध्यायः ॥ 23 ॥