अध्यायः 022
सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम् ॥ 1 ॥
सौतिरुवाच । 001
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः । 001a
निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा ॥ 001b
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी । 002a
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः ॥ 002b
इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः । 003a
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा ॥ 003b
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम । 004a
जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥ 004b
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा । 005a
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम् ॥ 005b
वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम् । 006a
तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा ॥ 006b
संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि । 007a
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम् ॥ 007b
आकरं सर्वरत्नानामालयं वरुणस्य च । 008a
नागानामालयं चापि सुरम्यं सरितां पतिम् ॥ 008b
पातालज्वलनावासमसुराणां तथालयम् । 009a
भयङ्कराणां सत्त्वानां पयसो निधिमव्ययम् ॥ 009b
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम् । 010a
अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम् ॥ 010b
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः । 011a
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः ॥ 011b
इत्येवं तरलतरोर्मिसङ्कुलं ते गम्भीरं विकसितमम्बरप्रकाशम् । 012a
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते ॥ ॥ 012b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥
*1-22-1 संविदं मिथ आलोचनम् ॥ 1-22-3 पणिते पणं कृत वत्यौ ॥ 3 ॥ द्वाविंशोऽध्यायः ॥ 22 ॥