अध्यायः 021 *उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम् ॥ 1 ॥ सौतिरुवाच । 001
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ । 001a
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥ 001b
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । 002a
सागरस्य परं पारं वेलावनविभूषितम् ।' 002b
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥ 002c
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम् । 003a
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् ॥ 003b
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा । 004a
सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् ॥ 004b
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा । 005a
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥ 005b
आकरं सर्वरत्नानामालयं वरुणस्य च । 006a
नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥ 006b
पातालज्वलनावासमसुराणां च बान्धवम् । 007a
भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥ 007b
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् । 008a
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥ 008b
घोरं जलचरारावरौद्रं भैरवनिःस्वनम् । 009a
गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥ 009b
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम् । 010a
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः ॥ 010b
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम् । 011a
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥ 011b
गां विन्दता भगवता गोविन्देनामितौजसा । 012a
वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥ 012b
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा । 013a
अनासादितगाधं च पातालतलमव्ययम् ॥ 013b
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः । 014a
युगादिकालशयनं विष्णोरमिततेजसः ॥ 014b
वज्रपातनसन्त्रस्तमैनाकस्याभयप्रदम् । 015a
डिम्बाहवार्दितानां च असुराणां परायणम् ॥ 015b
बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम् । 016a
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥ 016b
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । 017a
अभिसार्यमाणमनिशं ददृशाते महार्णवम् । 017b
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः ॥ 017c
गम्भीरं तिमिमकरोग्रसङ्कुलं तं गर्जन्तं जलचररावरौद्रनादैः । 018a
विस्तीर्णं ददृशतुरम्बरप्रकाशन्तेऽगाधन्निधिमुरुमम्भसामनन्तम् ॥ 018b

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः ॥ 21 ॥ *1-21-3 क्षोभ्यमाणं मकरादिभिः ॥ 1-21-7 पातालज्वलनो बडवाग्निः ॥ 1-21-12 गां पृथ्वीं विन्दता लम्बमानेन ॥ 1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे ॥ 1-21-18 ते कद्रूविनते ॥ एकविंशतितमोऽध्यायः ॥ 21 ॥