अध्यायः 019 देवानाममृतपानं ॥ 1 ॥ देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं ॥ 2 ॥ देवदैत्ययोर्युद्धं । तत्र दैत्यपराजयः ॥ 3 ॥ सौतिरुवाच । अथावरणमुख्यानि नानाप्रहरणानि च । 001a
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ 001b
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् । 002a
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ 002b
ततो देवगणाः सर्वे पपुस्तदमृतं तदा । 003a
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥ 003b
पाययत्यमृतं देवान्हरौ बाहुबलान्नरः । 004a
निरोधयति चापेन दूरीकृत्य धनुर्धरान् । 004b
ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;' ॥ 004c
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् । 005a
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥ 005b
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा । 006a
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ 006b
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । 007a
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ 007b
तच्छैलशृह्गप्रतिमं दानवस्य शिरो महत् । 008a
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥' 008b
चक्रच्छिन्नं खमुत्पत्य ननादातिभयङ्करम् । 009a
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ॥ 009b
त्रयोदश सहस्राणि चतुरश्रं समन्ततः । 010a
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् ॥ 010b
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै । 011a
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥ 011b
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः । 012a
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥ 012b
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः । 013a
सुराणामसुराणां च सर्वघोरतरो महान् ॥ 013b
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः । 014a
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ 014b
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु । 015a
असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥ 015b
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः । 016a
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा ॥ 016b
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः । 017a
अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥ 017b
हाहाकारः समभवत्तत्र तत्र सहस्रशः । 018a
अन्योन्यञ्छिन्दतां शस्त्रैरादित्ये लोहितायति ॥ 018b
परिङ्घैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः । 019a
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ 019b
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च । 020a
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥ 020b
एवं सुतुमुले युद्धे वर्तमाने महाभये । 021a
नरनारायणौ देवौ समाजग्मतुराहवम् ॥ 021b
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि । 022a
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥ 022b
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् । 023a
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम् ॥ 023b
तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः । 024a
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम् ॥ 024b
तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा । 025a
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे ॥ 025b
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत । 026a
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत् ॥ 026b
तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा । 027a
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह ॥ 027b
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः । 028a
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः ॥ 028b
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः । 029a
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते ॥ 029b
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत् । 030a
विदारयन्गिरिशिखराणि पत्रिभिर्महाभयेऽसुरगणविग्रहे तदा ॥ 030b
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः । 031a
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते ॥ 031b
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः । 032a
विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् ॥ 032b
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम् । 033a
ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह ॥ ॥ 033b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥ *1-19-1 आवरणमुख्यानि कवचाग्र्याणि ॥ 1-19-3 सम्भ्रमे उभयेषाममृतादरे सति । सङ्ग्रामे इति पाठान्तरं ॥ 1-19-26 प्रवेरितं प्रेरितं ॥ 1-19-27 विगलितमेघाः रिक्तमेघाः ॥ 1-19-32 सलिलधराः अमृतभृतो देवाः ॥ 1-19-33 किरीटिने नराय ॥ एकोनविंशोऽध्यायः ॥ 19 ॥