अध्यायः 018
*मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम् ॥ 1 ॥
सौतिरुवाच । 001
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् । 001a
मन्दरं पर्वतवरं लताजालसमाकुलम् ॥ 001b
नानाविहङ्गसङ्घुष्टं नानादंष्ट्रिसमाकुलम् । 002a
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम् ॥ 002b
एकादश सहस्राणि योजनानां समुच्छ्रितम् । 003a
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥ 003b
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा । 004a
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥ 004b
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् । 005a
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥ 005b
सौतिरुवाच । 006
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव । 006a
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥ 006b
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः । 007a
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥ 007b
अथ पर्वतराजानं तमनन्तो महाबलः । 008a
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥ 008b
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे । 009a
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥ 009b
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः । 010a
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥ 010b
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः । 011a
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥ 011b
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् । 012a
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥ 012b
मन्थानं मन्दरं कृत्वा तथा योक्रं च वासुकिम् । 013a
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् । 013b
अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः ॥ 014a
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ॥ 014b
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः । 015a
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥ 015b
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः' । 016a
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥ 016b
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः । 017a
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ 017b
वासुकेर्मथ्यमानस्य निःसृतेन विषेण च । 018a
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥ 018b
मथनान्मन्दरेणाथ देवदानवबाहुभिः । 019a
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥ 019b
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह । 020a
अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥ 020b
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः । 021a
मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥ 021b
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह । 022a
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥ 022b
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् । 023a
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥ 023b
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः । 024a
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥ 024b
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् । 025a
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥ 025b
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः । 026a
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥ 026b
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा । 027a
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥ 027b
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः । 028a
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥' 028b
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः । 029a
अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ॥ 029b
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः । 030a
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥ 030b
बभूवात्र महान्नादो महामेघरवोपमः । 031a
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ 031b
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा । 032a
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥ 032b
वारुणानि च भूतानि विविधानि महीधरः । 033a
पातालतलवासीनि विलयं समुपानयत् ॥ 033b
तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् । 034a
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ 034b
तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः । 035a
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥ 035b
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् । 036a
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ 036b
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः । 037a
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः ॥ 037b
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि । 038a
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ 038b
तेषाममृतवीर्याणां रसानां पयसैव च । 039a
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥ 039b
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः । 040a
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥ 040b
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् । 041a
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥ 041b
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः । 042a
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥ 042b
ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् । 043a
सौतिरुवाच । 043
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः' ॥ 043b
ततो नारायणं देवं वचनं चेदमब्रवीत् । 044a
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥ 044b
विष्णुरुवाच । 045
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः । 045a
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम् ॥ 045b
सौतिरुवाच । 046
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः । 046a
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥ 046b
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः । 047a
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता । 047b
कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥' 047c
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् । 048a
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥ 048b
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी । 049a
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥ 049b
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसम्भवः । 050a
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥ 050b
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः । 051a
पारिजातश्च तत्रैव सुरभिश्च महामुने । 051b
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥ 051c
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः । 052a
कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ।' 052b
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥ 052c
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत । 053a
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥ 053b
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः । 054a
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥ 054b
ततो नारायणो मायां मोहिनीं समुपाश्रितः । 055a
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥ 055b
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः । 056a
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ 056b
सा तु नारायणी माया धारयन्ती कमण्डलुम् । 057a
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः ॥ 057b
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥ ॥ 058ab
इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
*1-18-11 अकूपारे समुद्रसमीपे । अधिष्ठानं आधारः ॥ 1-18-12 कूर्मेण तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः । सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत् । इति पाठान्तरं ॥ 1-18-13 योक्त्रं मन्थनरज्जुम् ॥ 1-18-14 एकमन्तं एकं प्रदेशं मुखभागम् ॥ 1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि ॥ 1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह । तत इति । ततः तेषां निःस्रवं प्राप्य । समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम् ॥ 1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः । नारायणउरोगत इत्यसन्धिरार्षः ॥ 1-18-55 अभिसंश्रितः सम्मुखः स्थितः मोहनार्थमिति शेषः ॥ अष्टादशोऽध्यायः ॥ 18 ॥