अध्यायः 017
अमृतमथनविषये भगवदाज्ञया देवानां विचारः ॥ 1 ॥
सौतिरुवाच । 001
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन । 001a
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात् ॥ 001b
यं तु देवगणाः सर्वे हृष्टरूपमपूजयन् । 002a
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥ 002b
अमोघबलमश्वानामुत्तमं जविनां वरम् । 003a
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम् ॥ 003b
शौनक उवाच । 004
कथं तदमृतं देवैर्मथितं क्व च शंस मे । 004a
कारणं चात्र मथने सञ्जातममृतात्परम् ॥' 004b
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥ 004c
सौतिरुवाच । 005
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् । 005a
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥ 005b
कनकाभरणं चित्रं देवगन्धर्वसेवितम् । 006a
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥ 006b
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम् । 007a
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥ 007b
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् । 008a
नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥ 008b
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् । 009a
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः ॥ 009b
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः । 010a
अमृताय समागम्य तपोनियमसंयुताः ॥ 010b
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् । 011a
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥ 011b
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः । 012a
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥ 012b
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह । 013a
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥ ॥ 013b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
*1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वा तत ईषन्न्यूनम् ॥ 1-17-13 वेत्स्यध्वं लप्स्यध्वम् ॥ सप्तदशोऽध्यायः ॥ 17 ॥