अध्यायः 016
आस्तीकाख्यानविस्तरः ॥ 1 ॥ कद्रूविनतयोः कश्यपाद्वरलाभः ॥ 2 ॥ कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च ॥ 3 ॥
शौनक उवाच ।
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः । 001a
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हि नः ॥ 001b
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया । 002a
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥ 002b
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव । 003a
आचष्टैतद्यथाऽऽख्यानं पिता ते त्वं तथा वद ॥ 003b
सौतिरुवाच । 004
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते । 004a
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया ॥ 004b
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे । 005a
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ ॥ 005b
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । 006a
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ 006b
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः । 007a
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते ॥ 007b
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ । 008a
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ॥ 008b
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले । 009a
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ ॥ 009b
तस्यै भर्ता वरं प्रादादीदृशौ ते भविष्यतः । 010a
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥ 010b
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा । 011a
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ॥ 011b
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम् । 012a
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ॥ 012b
ते भार्ये वरसन्तुष्टे कश्यपो वनमाविशत् । 013a
सौतुरिवाच ।
कालेन महता कद्रूरण्डानां दशतीर्दश ॥ 013b
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा । 014a
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ॥ 014b
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च । 015a
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ॥ 015b
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत । 016a
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी ॥ 016b
अण्डं बिभेद विनता तत्र पुत्रमपश्यत । 017a
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता ॥ 017b
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः । 018a
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥ 018b
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि । 019a
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ॥ 019b
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति । 020a
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ॥ 020b
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम् । 021a
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ॥ 021b
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः । 022a
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ॥ 022b
अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा । 023a
उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः ॥ 023b
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् । 024a
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः ॥ 024b
सोऽपि तं रथमारुह्य भानोरमिततेजसः । 025a
सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत् ॥' 025b
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः । 026a
स जातमात्रो विनतां परित्यज्य खमाविशत् ॥ 026b
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् । 027a
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः ॥ ॥ 027b
इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः ॥ 16 ॥
*1-16-15 सोपस्वेदेषु ऊष्मवत्सु ॥ षोडशोऽध्यायः ॥ 16 ॥