अध्यायः 014
वासुकिभगिन्या जरत्कारोर्विवाहः ॥ 1 ॥
सौतिरुवाच ।
ततो निवेशाय तदा स विप्रः संशितव्रतः । 001a
महीं चचार दारार्थी न च दारानविन्दत ॥ 001b
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् । 002a
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥ 002b
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा । 003a
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥ 003b
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि । 004a
मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥ 004b
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः । 005a
किन्नाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ॥ 005b
वासुकिरुवाच । 006
जरत्कारो जरत्कारुः स्वसेयमनुजा मम । 006a
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् । 006b
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥ 006c
सौतिरुवाच । 007
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम् । 007a
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ ॥ 007b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
*1-14-1 निवेशाय दारसङ्ग्रहाय ॥ चतुर्दशोऽध्यायः ॥ 14 ॥